SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ६४ ] तन्दुलवैचारिकप्रकीर्णकम् तुङ्गौ मृदुकौ-कोमलौ द्वौ स्कन्धौ येषां ते तथा वरमहिषः-सैरभेयः वराहः--शुकरः शार्दू लो--व्याघः नागवरो--गजवरः, चत्वार्य गुलानि स्वागुलापेक्षया सुष्टु प्रमाणं यस्याः कम्बुवरेण च प्रधानशङ्खन सदृशी-उन्नतत्ववलित्रययोगाभ्यां समाना ग्रीवाकण्ठो येषां ते तथा, अवस्थितानि-न हीयमानानि न वर्द्धमानानि सुविभक्तानि चित्राणि च-शोभया अद्भुतभूतानि श्मश्रूणि-कूर्चकेशा येषां ते तथा, मांसलं संस्थितं प्रशस्तं शार्दूलस्येव विपुलं हनु-चिबुकं येषां ते तथा, 'ओयविय'त्ति परिकर्मितं यच्छिलाप्रवालं-विमं बिम्बफलं--गोल्हाफलं तत्सनिभ:--सदृशो रक्तत्वेन अधरोष्ठ:--अधस्तनदन्तच्छदो येषां ते तथा, पाण्डुरं यच्छशिशकलं--चन्द्रखण्डं तद्वत् विमल:-- आगन्तुकमलरहितः निर्मल:--स्वाभाविकमलरहितो यः शङ्खः तद्वत् गोक्षीरफेनवत् । 'कुद'त्ति कुन्दपुष्पवत् दकरजोवद् मृणालिकावत्--पद्मिनीमूलवत् धवला दन्तश्रेणिः- दशनपक्तियेषां ते तथा, अखण्डदन्ताः-परिपूर्णदशनाः अस्फुटितदन्ताः-राजिरहितदन्ताः अविरलदन्ताः सुस्निग्धदन्ताः--अरूक्षदन्ताः सुजातदन्ताःसुनिष्पन्नदन्ताः, एको दन्तो यस्या श्रेण्या सा एकदन्ता सा श्रेणिः येषां ते तथा ता इव दन्तानामतिघनत्वादेकदन्तश्रेणिस्तेषामिति भावः, अनेकदन्ताः द्वात्रिंशद्दन्ता इति भावः, यद्वा एका-एकाकारा दन्तश्रेणियेषां ते एकदन्तश्रेणयः ते इव
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy