SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ६२ ] तन्दुलवैचारिकप्रकोणकम् कपीनरतिदपार्खा इत्यर्थः । 'अकरंडुय'त्ति मांसोपचितत्वादविद्यमानपृष्ठिपाास्थिकमिव कनकरुचक-काश्चनकान्ति निर्मलं स्वाभाविकमलरहितं आगन्तुकमलरहितं च सुजातं--सुनिष्पन्न निरुपहतं-रोगादिभिरनुपहतं देह-शरीरं धारयन्ति ये ते तथा, 'पसत्थवत्तीस०' छत्रं १ ध्वजः २ यूपः ३ स्तूपः ४ दामिणी रूढिगम्यं ५ कमण्डलु ६ कलशः ७ वापी ८ स्वस्तिकः 8 पताका १० यवः ११ मत्स्यः १२ । रथवरः १४ मकरध्वजः १५ अङ्को-मृगः १६ स्थालं १७ अङ्कुशः १८ चूतफलकं १६ स्थापनकं २० अमरः २१ लक्षम्या अभिषेकः २२ तोरणं २३ मेदिनी २४ समुद्रः २५ प्रधानमन्दिरं २६ गिरिवरः २७ वरदपणः २८ लीलायमानगजः २६ वृषमः ३० सिंहः ३१ चामरं ३२ । एतानि प्रशस्तानि द्वात्रिंशल्लक्षणानि धारयन्ति ये ते तथा, कनकशिलातलमिव उज्ज्वलं प्रशस्तं समतलं-अविषमरूपं उपचितं-मांसलं विस्तीर्णपृथुलं-अतिविस्तीर्ण वक्षोहृदयं येषां ते तथा, श्रीवत्सेन अङ्कितं वक्षो येषां ते तथा, पुरवरस्य परिघा-अबद्धा अर्गला तद्वत् वर्तितौ-वृत्तौ भुजौ-बाहू येषां ते तथा, भुजगेश्वरो-भुजगराजः तस्य विपुलो-महान् यो भोगः-शरीरं तद्वत आदीयत इत्यादान:-आदेयो रम्यो यः परिधः-अगला 'उच्छूढ'त्ति स्वस्थानाद् अवक्षिप्तो-निष्काशितः तद्वच्च दीघौं बाहू येषां ते तथा, युगसन्निभौ-यूपसदृशौ पीनौ
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy