________________
तन्दुलवैचारिकप्रकीर्णकम् [५९ 'सोमं दृष्टिसुभगं चारु रूपं येषां ते तथा यद्वा 'अणवहरसोमचारुरुव'त्ति अतीति अव्ययमतिकमार्थे न अति अनति सौम्यं च तच्चारु च सौम्यचारु सौम्यचारु च तद्रूपं च सौम्यचारुरूपं वरं च तत्सौम्यचारुरूपं च वरसौम्यचारुरूपं अनतीति-अनतिक्रान्तं वरसौम्य चारुरूपं येषां ते अनतिवरसौम्यचारुरूपाः, देवैरपि स्वलावण्यगुणादिभिरजितरूपा इत्यर्थः, भोगैरुत्तमाः भोगोत्तमाः सर्वोत्तमभोगभोक्तार इत्यर्थः, भोगसूचकलक्षणानि-स्वस्तिकादीनि धारयन्तीति भोगलक्षणधराः सुजातानि-सुनिष्पन्नानि सर्वाणि अङ्गानि-अवयवाः यत्र तदेवंविधं सुन्दरं अङ्ग-शरीरं येषां ते सुजातसर्वाङ्गसुन्दराङ्गाः, 'रत्तप्पलपउमकरचरणकोमलंगुलितल'त्ति रक्तोत्पलवत् करचरणानां कोमला अगुल्यो येषां ते तथा ।
तथा पद्मवत् करचरणानां कोमलानि तलानि-अधोभागा येषां ते तथा, नगः-पर्वतः नगरं प्रतीतं मकरो-मत्स्यः सागरः-समुद्रः चक्र प्रतीतं अङ्कधरः-चन्द्रः अङ्क:-तस्यैव लाञ्छनं मृगः एवंरूपैलेक्षणैरङ्कितानि तलानि-पादाधोभागाः येषां ते तथा, सुप्रतिष्ठिताः-सत्प्रतिष्ठानवन्तः कूर्मवत्-कच्छपवत् चारवः चरणा येषां ते तथा, आनुपूर्व्या-परिपाटया वर्द्धमाना हीयमाना वा इति गम्यते, सुजाता:-सुनिष्पन्नाः पीवराः अङ्गुलिकाः-पादानावयवाः येषां ते तथा, उन्नता:-तुङ्गाः तनवः-प्रतलाः ताम्रा-अरुणाः स्निग्धाः कान्तिमन्तो नखा