________________
६० ] तन्दुलर्वैचारिकप्रकोणकम् येषां ते तथा, संस्थितौ-संस्थानविशेषवन्तौ सुश्लिष्टौ-मांसलौ गूढौ-मांसलत्वादनुपलक्ष्यौ गुल्फौ-घुटको येषां ते तथा, आनुपूय॑ण-परिपाटया वधमाना हीयमाना वा इति गम्यते, एणीहरिणी तस्याश्चेह जङ्घा ग्राह्या, कुरुविन्दं-तृणविशेषः वत्ता च-सूत्रवलनकं एतानीव वृत्त-वतु ले आनुपूर्येण स्थूलस्थूलत्वेनेति गम्यं, जङ्घ-प्रसृते येषां ते तथा, समुद्गस्येव-समुद्गकपक्षिण इव निमग्ने-अन्तःप्रविष्टे गूढे-मांसलत्वादनुपलक्ष्ये जानुनी-अष्ठीवन्तौ येषां ते तथा, गजो-हस्ती 'ससण'त्ति श्वसिति-प्राणिति अनेनेति श्वसन:-शुण्डादण्डः गजस्य श्वसनः गजश्वसनस्तस्य सुजातस्य- सुनिष्पन्नस्य सनिमे--सदृशे ऊरू, येषां ते तथा, वरवारणस्य-प्रधानगजेन्द्रस्य तुल्यः--सदृशो विक्रमः--पराक्रमो विलासिता-सञ्जातविलासा च गतिर्येषां ते तथा, सुजातवरतुरगस्येव सुगुप्तत्वेन गुह्यदेशो-लिङ्गलक्षणोऽवयवो येषां ते तथा, आकीणहय इव-जात्याश्व इव निरुपलेपाः
तथाविधमलविकलाः, प्रमुदितो-दृष्टो यो वरतुरगः सिंहश्च ताभ्यां सकाशादतिरेकेण--अतिशयेन पर्त्तिता-चतुला कटियषां ते तथा, 'साहय'त्ति संहतं--संक्षिप्तं यत् सोणंदं त्रिकाष्ठिकामध्यं मुशलं--प्रतीतं दर्पणो-दर्पणगण्डो विवक्षितः 'निगरिय'त्ति सर्वथा शोधितं सारीकृतमित्यर्थः यद् वरकनकं तस्य यत् 'छत्ति खड्गादिमुष्टिः स च (ततः) एतद्द्वन्द्वस्तैः सदृशो यः, वरवज्रवद् वलितः क्षामो-वलित्रयोपेतो