SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ णानि अङ्गानि विद्यन्ते यस्याः यस्यां वा सा चतुरङ्गिनी तां चतुरङ्गिनों 'सिन्न'न्ति सेना कटकमित्यर्थः 'सन्नाहेइ'त्ति सज्जां करोतीत्यर्थः सज्जां कृत्वा परानीकेन साध संग्राम संग्रामयति-युद्धं करोतीत्यर्थः ‘से णं जीवे'त्ति णं इति वाक्यालङ्कारे सः-युद्धकर्ता जीवः 'अत्थकामए'त्ति अर्थद्रव्ये कामो-वाञ्छामात्रं यस्यासावथकामः एवमन्यान्यपि विशेषणानि, नवरं-राज्यं-नृपत्वं २ भोगाः-गन्धरसस्पर्शाः ३ कामौ-शब्दरूपे ४ 'अत्थकंखिए'त्ति काङ्क्षा गद्धिरासक्तिरित्यर्थः अर्थ-द्रव्ये काङ्क्षा सञ्जाता अस्येति अर्थकाङ्कित १ एवमन्यानि राज्यकाङ्क्षितः २ भोगकाङ्क्षितः ३ कामकाशितः ४ 'अथपिवासिए'त्ति पिपासेव पिपासाप्राप्तेऽप्यर्थेऽतृप्तिः अर्थ अर्थस्य वा पिपासा सञ्जाता अस्येति अर्थपिपासितः १ एवमन्यानि राज्यपिपासितः २ भोगपिपासितः ३ कामपिपासितः ४, 'तचित्तेत्ति तत्र-अर्थराज्यभोगकामे चित्तं-सामान्योपयोगरूपं यस्यासौ तचित्तः १ 'तम्मणेति तत्रैव-अर्थादौ मनः-विशेषोपयोगरूपं यस्य स तन्मनाः २ 'तल्लेसे'त्ति तत्रैव-अर्थादो लेश्या-आत्मपरिणामविशेषः यस्यासौ तल्लेश्यः ३ 'तदझवसिए'त्ति इह अध्यवसाय-अध्यवसितं तत्र तचित्तादिभावयुक्तस्य सतः तस्मिन् अर्थादावेवाध्यवसितं-परिभोगक्रियासम्पादनविषयमस्येति तदध्यवसितः ४ तत्तिव्यज्झवसाणे'त्ति तस्मिन्नेव
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy