SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ अस्त्ययं पक्षः यदुत एककः कश्चिन्नोत्पद्यते, 'से' अथ केनाथेन हे भदन्त ! एवं प्रोच्यते-जीवो गर्भगतः सन् नरकेषु अस्त्येककः उत्पद्यते अस्त्येकको नोत्पद्यते १, हे गौतम ! 'जे पंति यो जीवः '' इति वाक्यालङ्कारे गर्भगतः सन् आहारादिका संज्ञा विद्यते यस्य स संज्ञी पश्च इन्द्रियाणिश्रवण १ घ्राण २ रसन ३ चक्षुः ४ स्पर्शन ५ लक्षणानि विद्यन्ते यस्य स पचेन्द्रियः सर्वाभिराहारशरीरेन्द्रियोच्छ्वासभाषामनोलक्षणाभिः षभिः पर्याप्तिभिः पर्याप्तः, मासद्वयोपरिवर्तीत्यनुक्तमपि ज्ञेयं, यतो मासद्वयमध्यवर्ती मनुष्यो गर्भस्थो नरके देवलोकेऽपि न यातीत्युक्तं भगवत्यामिति, पूर्वभविकवीर्यलब्ध्या पूर्वभविकविभंगज्ञानलब्ध्या विभंगनाणलद्धीएत्ति पदं भगवत्यां नास्ति, पूर्वभविकवैक्रियलब्ध्या वैक्रियल ब्धि प्राप्तः सन् यद्वा वीर्यलब्धिकः विभङ्गज्ञानलब्धिकः वैक्रियलब्धिकः वैक्रियलब्धि प्राप्तः सन् परानीकं-शत्रुसैन्यं आगतं-प्राप्तं 'सोच्चेति श्रुत्वा 'निसम्म'त्ति निशम्यमनसा अवधार्य 'पएसे निच्छ भइ'त्ति स्वप्रदेशान् अनन्तानन्तकमस्कन्धानुविद्धान् गर्भदेशाद् बहिः क्षिपति-निष्काशयति निष्काश्य विष्कम्भवाहल्याभ्यां शरीरप्रमाणं आयामतः सङ्ख्य ययोजनप्रमाणं जीवप्रदेशदण्डं निसृजति, वैक्रियसमुद्घातेन 'समोहणइ'त्ति समवहन्ति-समवहतो भवति तथाविधपुद्गलग्रहणार्थ, समवहत्य चत्वारि गजाश्वरथपदातिलक्ष
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy