SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ १०] तन्दुलवैचारिकप्रकीर्णकम् ___“आउसो! इत्थी०" हे आयुष्मन् !-हे गौतम ! स्त्रियाः-नार्याः नाभेरधः-अधोभागे पुष्पनालिकाकारं-सुमनोवृन्तसदृशं शिराद्विकं-धमनियुग्मं वर्तते, च पुनस्तस्यशिराद्विकस्याधो योनिः-स्मरकूपिका संस्थिता अस्ति, किंभृता ?अधोमुखा, पुनः किंभूता ?-'कोस'त्ति कोशा-खड्गपिधानकाकारेत्यर्थः ।। "तस्स य.” तस्याश्च योनेरधः-अधोभागे'चूतस्य'. आम्रस्य यादृश्यो मञ्जर्यो-वल्लरयो भवन्ति तादृश्यो मांसस्य पललस्य मञ्जरयो भवन्ति, ता मञ्जरयः स्त्रीणां मासान्ते यदजस्रमिश्र दिनत्रयं श्रवति तद्ऋतुकालः-स्त्रीधर्मप्रस्तावस्तस्मिन् स्फुटिताः-प्रफुल्लाः सत्यः शोणितलवकान्-रुधिरविन्दन् विमुश्चन्ति-श्रवन्ति ॥ १० ॥ ___ "कोसा" ते रुधिरबिन्दवः कोशाकारां योनि सम्प्राप्ताः सन्तः शुक्रमिश्रिताः-ऋतुदिनत्रयान्ते पुरुषसंयोगेन अपुरुषसंयोगेन वा पुरुषवीर्येण मिलिताः 'जय'त्ति यदा भवन्ति 'तइय'त्ति तदा जीवोत्पादे-गर्भसम्भूतिलक्षणे योग्या भणिताकथिता जिनेन्द्रः-सर्वज्ञैरिति । ननु कथं पुरुषासंयोगे पुरुषवीर्यसम्भव इति १, अत्रोच्यते, स्थानाङ्गाभिप्रायेण यथा "पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं असंवसमाणीवि गभं धरेजा, तं०-इत्थी दुविप्पयडा
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy