________________
तन्दुलवैचारिक प्रकीर्णकम्
[ ९
अहोरात्रस्य च पञ्चदश मुहूर्त्तानि क्षिप्यन्ते जातानि (८३२५) इति, इतः - उक्तरूपात् (८३२५) वातदोषादिकारन हीनाधिकान्यपि मुहूर्त्तानि वसति गर्भे जीव इति ॥ ६ ॥ अथ गाथाद्वयेन गर्भे निःश्वासोच्छ्वासप्रमाणमाह- 'तिन्नेव ० ' "उस्सास" तिस्रः कोटयः चतुर्दश शतसहस्राणि - चतुर्दश लक्षाणीत्यर्थः दश सहस्राणि द्वे शते पञ्चविंशत्यधिके इति (३१४१०२२५) ' इत्तियमित्ता' इति एतावन्मात्राः सङ्कलिताः - एकीकृताः जीवस्य गर्भवासे निश्वयेन निःश्वासो - च्छ्वासा भवन्ति कथं १, एकस्मिन्नन्तर्मु (न्मु )हूर्त्ते सप्तत्रिंशच्छतानि त्रिसप्तत्यधिकानि ( ३७७३) निःश्वासोच्छ्वासा भवन्ति, एतैश्च पदैः तानि ( ८३२५) उक्तरूपाणि मुहूर्त्तानि गुण्यन्ते तदा यथोक्तं (३१४१०२२५) एतद् भवतीति, इतः -उक्तरूपात् वातादिकारणेन हीनाधिका निःश्वासोच्छ्वासा भवन्तीति ||७-८|| अथाहाराधिकारे किञ्चिद्गर्भादिस्वरूपमाहआउसो !- इत्थीए नाभिहिट्ठा सिरादुगं पुष्फनालियागारं । तस्स य हिट्ठा जोणी अहोमुहा संठिया कोसा ॥ ६ ॥ तस्स य हिट्ठा चूयस्स मंजरी [जारिसी ] तारिसा उ मंसस्स । ते रिउकाले फुडिया सोणियलवया विमोयंति ॥ १० ॥ कोसायारं जोणि संपत्ता सुक्कमीसिया जड़या । तइया जीवववाए जुग्गा भणिआ जिणिदेहिं ॥ ११ ॥