________________
तन्दुलचारिकप्रकोर्णकम् [१३५ सनीयाः-साधुजनैः प्रशंसां कत्तुं योग्या नेत्यर्थः ५२ 'किंपाग.' किंपाकफलमिव-विषवृक्षफलमित्र मुखे-आदौ मधुराः महाकामरसोत्पादकाः परं पश्चाद्विपाकदारुणाः ब्रह्मदत्तचक्रिवत् ५३ 'रित्तमुट्ठो' रिक्तमुष्टिवत् पोलकमुष्टिवत् बाललोभनीया:-अव्यक्तजनभोलनयोग्याः वल्कलचीरितापसवत् ५४ 'मंस.' मांसपेसीग्रहणमिव सोपद्रवाः, यथा केनापि सामान्यपक्षिणा कुतश्चित्स्थानात् मांसपेसी प्राप्ता तस्यान्यदुष्टपक्षिकृताः अनेके शरीरपीडाकारिण उपद्रवा भवन्ति तथा रामाग्रहणेऽनेके इहमवे परभवे च दारुणा उपद्रवा जायन्ते, यद्वा यथा मत्स्यानां मांसपेसीग्रहणं सोपद्रवं तथा नराणामपि स्त्रीग्रहणमित्यर्थः ५५ । ___'जलि.' अमुश्चन्ती-अत्यज्यमाना 'जलियचुडिलीविव' प्रदीप्ततृणपूलिकेव 'दहनसीला' ज्वालनस्वभाका ५६ 'अरि०' अरिष्ठमिव निविडपापमिव दुर्लन्नीयाः ५७ 'कूड०' कूटकार्षापण इव असत्यनाण कविशेष इव कालविसंवादनशीला:-कालविघटनस्वभावाः अकालचारिण्य इत्यर्थः ५८ 'चंड०' चण्डशील इव-तीवकोपीव दुःखरक्षिताः ५६ 'अतिविसाउ'त्ति अतिविषादाः दारुणविषादहेतुत्वात् , यद्वा 'अतीति अतिक्रान्तो गतोऽकार्यकरणे विषादः-खेदो यासां तास्त था, यद्वा अतीति-भृशं विषं अतिविषं अतिविष आसमन्तात् ददति पुरुषाणां सूरीकान्तावत् . यास्ताः अति