________________
१३४ ] तन्दुलचारिकप्रकीर्णकम् चाराः, निर्लज्जत्वेन यत्र तत्र ग्रामनगरारण्यमार्गक्षेत्रगृहोपा. श्रयचैत्यगृहग वाटिकादौ पुरुषाणां वाञ्छाकारित्वात् , तथाविधवेश्यादुष्टदासीरण्डिकामुण्डिकादीनामिव ४६ 'दुट्ट. स्सो०' दुष्टाश्ववत्-कुलक्षणघोटकवत् दुर्दमाः सर्वप्रकारनिर्लज्जीकृताः, अपि-पुनः पुरुषसंयोगे स्वकामाभिप्रायकपणहेतुत्वात् ४७ 'घालो' बालवत्-शिशुवत् मुहूर्त्तहृदयाः, मुहूर्तानन्तरं प्रायोऽन्यत्र रागधारकत्वात् , कपिलब्राह्मणासक्तदासीवत् ४८ 'अंधका.' कृष्णभूतेष्टादिभवमन्धकार अरुणवरसमुद्रोद्भवतमस्कायं वा तद्वद् दुष्प्रवेशा मायामहान्धकारगहनत्वेन देवानामपि दुष्प्रवेशत्वात् ४६ 'विस' विषवल्लीवत्-हालाहल विषलतावत् 'अण' अनाश्रयणीयाःसर्वथा सङ्गादिकत्तु मयोग्याः, तत्कालप्राणप्रयाणहेतुत्वात् , पर्वतकराज्ञो नंदपुत्रीविषकन्यावत् ५० ।। ___ 'दुट्ठ०' दुष्टग्राहा-निदयमहामकरादिजलजन्तुसेवितवापीवत् अनवगाह्याः-महता कष्टेनापि अप्रवेशयोग्याः सुदर्शनश्रेष्ठिवत् ५१ 'ठाण.' स्थानभ्रष्टः ईश्वरो-ग्रामनगरादिनायकस्तद्वत् यद्वा स्थानं-चारित्रगुरुकुलवासादिकं तस्मात् भ्रष्टः ईश्वरः-चारित्रनायकः साधुरित्यर्थः तद्वत् , यद्वा स्थानंसिद्धान्तव्याख्यानरूपं तस्मात् भ्रष्टः, उत्सूत्रप्ररूपणेन, ईश्वरोगणनायक आचार्य इत्यर्थः तद्वत् , यद्वा स्थानम्रष्टो-दुष्टाचारे रक्त इत्यर्थः, ईश्वरः- सत्यकीविद्याधरस्तद्वत् , अप्रशं