________________
१३२ ] तन्दुलौचारिकप्रकोर्णकम् दया:--दुष्टचित्ताः, पालगोपालापरमातामहालक्ष्मीवत् २७ 'तण०' तृणछन्नकूप इव--तृणसमूहाच्छादितान्धुवत् अप्रकाशहदयाः, शतकश्रावकमारवतीवत् २८ 'माया' मायाकारक इव--परवश्चकमृगादिबन्धक इवोपचारशतेन बन्धनशतप्रयोक्न्यः, तत्रोपचारशतानि--औपचारिकवचनचेष्टादिशतानि बन्धनानि रज्जुस्नेहादिबन्धनशतानीव तेषां 'पउत्तीउ' त्ति-कर्व्यः २६ 'आयरि०' अत्रापि विवशब्द इवाथै, आचार्यसविधमित्र--अनुयोगकृत्समीपमिव बहुभिः-अनेकप्रकारैरनेकपुरुपैर्वा ग्राह्यः--ग्रहीतुं शक्यः यद्वाऽऽत्वात् 'अगिझु'त्ति अग्राह्यः सर्वथा ग्रहीतुमशक्यः सद्भाव:--आन्तरचित्ताभिप्रायो यासां ताः बहुग्राह्यसद्भावाः बहुअग्राह्यसद्भावा वा ३० । ___'फुफु' फुफुका-करीषाग्निः कोउ इतिजनोक्तिस्तद्वत अन्तो दहनशीलाः पुरुषाणामन्तो दुःखाग्निज्वालनात , उक्तश्च--
"पुत्रश्च मूखों विधवा च कन्या, शठं च मित्रं चपलं कलत्रम् । विलासकालेऽपि दरिद्रता च, विनाऽग्निना पश्च दहन्ति देहम् । १॥" ३१ ॥ 'नग्ग' विषमपर्वतमार्गवत् अनवस्थितचित्ताः नैकत्रस्थापितान्तःकरणा इत्यर्थः, अनङ्ग सेनसुवर्णकारजीवस्त्रीवत् , यद्वा नग्नकमार्गवत्--जिनकल्पिपन्थवत् नैकत्रचित्ताः यद्वा नग्नकमार्गवत्--भूतावेष्टिताचारवत् नैकत्रचित्ताः ३२