________________
तन्दुलवैचारिक प्रकीर्णकम्
[ १०३
द्वयमानृत्य हृदयस्योभयतो वक्षः पञ्जरादधस्तात् शिथिलकुक्षेस्तूपरिष्टात्परस्परासं मिलिता स्तिष्ठन्ति, अयं च कटाह इत्युच्यते, द्वे वितस्ती कुक्षिर्भवति, चतुरङ्गुलप्रमाणा ग्रीवा भवति, तौल्येन मगधदेशप्रसिद्ध पलेन चत्वारि पलानि जिह्वा भवति, अक्षिमांसगोलको द्वे पले भवतः, चतुर्भिः कपालैः - अस्थिखण्डरूपैः शिरो भवति, मुखेऽशुचिपूर्णे प्रायो द्वात्रिंशद्दन्ता अस्थिखण्डानि भवन्ति, 'सत्तं गु० ' जिह्वा - मुखाभ्यन्तरवर्तिमांसखण्डरूपा दैयेणात्माङ्गुलतः सप्ताङ्गुला भवति 'अद्घुट्ट' हृदयान्तरवर्ति मांसखण्डं सार्धपलत्रयं भवति, 'पणवी० कालिज्जं' वक्षोऽन्तगू ढमांसविशेषरूपं पञ्चविंशतिः पलानि स्युः १ ।
द्वे अत्रे प्रत्येकं पञ्च पञ्चवामप्रमाणे प्रज्ञप्ते जिनैः, तद्यथा - स्थूलान्त्रं १ तन्वन्त्रं २, तत्र यत् तत् स्थूलान्त्रं तेनोचारः परिणमति, तत्र च यत्तन्वन्त्रं तेन प्रस्रवणं - मूत्रं परिणमति, 'दो पा०' द्वे पार्श्वे प्रज्ञप्ते, तद्यथा - वामपार्श्व १ दक्षिणपार्श्व २ च तत्र - तयोर्मध्ये यत्तत् वामपार्श्व तत् शुभपरिणामं भवति, तत्र च यत्तदक्षिणपार्श्व तद्दुःखपरिणामं भवति २ ।
तथा 'आउसो !' हे आयुष्मन् ! अस्मिन् शरीरे षष्टिः सन्धिशतं ज्ञातव्यं, तत्र सन्धयः - अङ्गुल्याद्य स्थिखण्डमेलाप