________________
१०२ ]
तन्दुलगैचारिकप्रकोर्णकम्
सूर्योदयवत् न प्रतिनियतकालेऽवश्यंभावि अनियतं--सुरूपादेरपि कुरूपादिदर्शनात् हरितिलकराजसुतविक्रमकुमारशरीरवत् अशाश्वतं--क्षणं क्षणं प्रति विनश्वरत्वात् सनत्कुमारशरीरवत् 'चयावचइयंति इष्टाहारोपभोगतया धृत्युपष्टम्भादौदारिकवर्गणापरमाणूपचयाचयस्तदभावे तद्विचटनादपचयः चयापचयौ विद्यते यस्य तच्चयापचयिकं पुष्टिगलनस्वभावमित्यर्थः, करकंडुप्रत्येकबुद्धवैराग्यहेतुवृषभशरीरवत , विप्रणाशो-विनश्वरो धर्म:-स्वभावो यस्य तद् विप्रणाशधर्म, 'पच्छा वत्ति पश्चाद् विवक्षितकालात् परतः 'पुरा वत्ति विवक्षितकालात् पूर्व च, यद्वा 'पच्छा पुरा यत्ति पाठे तु विवक्षितकालस्य पश्चात्पूर्व च सर्वदैवेत्यर्थः, अवश्यं 'विप्पचइयव्वंति विप्रत्यक्तव्यं त्याज्यमित्यर्थः। 'एयस्सवि याईति एतस्य एतस्मिन्नपि च वा वपुषः वपुषि वा 'आई'ति वाक्यालङ्कारे 'आउसो'त्ति हे आयुष्मन् ! आनुपूया-अनुक्रमेणाष्टादश पृष्ठिकरण्डकस्य-पृष्ठिवंशस्य सन्धयो ग्रन्थिरूपा भवन्ति, यथा वंशस्य पर्वाणि, तेषु चाष्टादशसु सन्धिषु मध्ये द्वादशभ्यः सन्धिभ्यो द्वादश पांशुलिकाः निर्गत्योभयपार्थावावृत्य वक्षःस्थलमध्योर्ववयस्थिनि लगित्वा पल्लकाकारतया परिणमन्ति, अत आह-'बारस.' शरीरे द्वादश पांशुलिकारूपाः करण्डका:-वंशका भवन्ति, तथा 'छप्पंसु०' तस्मिन्नेव पृष्ठिवंशे शेषषट्सन्धिभ्यः षट् पांशुलिका निर्गत्य पाखें