SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ १०४ ] तन्दुलगैचारिकप्रकीर्णकम् कस्थानानि, 'सत्तुत्तरे' सप्तोत्तरं मर्मशतं भवति, तत्र मर्माणिशङ्खाणिकावियरकादीनि 'तिनि.' त्रीण्य स्थिदामशतानिहड्डमालाशतानि भवन्ति, 'नव पहारसयाईति स्नायूना-अस्थिवन्धनशिराणां नव शतानि, 'सत्त०' सप्त शिराशतानि-स्नसाशतानि, पञ्च पेसीशतानि, 'नव ध०' नव धमन्यो-रसवहनाडयः 'नव.' नवनवतिः रोमकूपशतसहस्राणि रोम्णां-तनुरुहाणां कूपा इव कूपा रोमकूपाः रोमरन्ध्राणीत्यर्थः तेषां नवनवतिलक्षा इति, विना केशश्मभिः, केशश्मश्रभिः सह पुनः सार्धास्तिस्रो रोमकूपकोट्यो भवन्ति मनुष्यशरीरे इति ३। अथ पूर्वोक्तानि शिरासप्तशतानि कथं भवन्तीति सूत्रकार एवाह-'आउसो०' हे आयुष्मन् ! अस्मिन् शरीरे 'सहि' इह पुरुषशरीरेनाभिप्रभवाणि शिराणां-स्नसानां सप्त शतानि भवन्ति, तत्र षष्टयधिकं शतं शिराणां नाभिप्रभवाणामूर्ध्वगामिनीनां शिरस्युपागतानां भवन्ति, यास्तु रसहरण्य इत्युच्यन्ते, 'जाणं सित्ति यासामूर्ध्वगामिनीनां शिराणां 'से' तस्य जीवस्य निरुपघातेन-अनुग्रहेण चक्षुः १ श्रोत्र २ घाण ३ जिह्वा ४ बलं भवति, यासां 'से' तस्योपघातेनविघातेन चक्षुःश्रोत्रघ्राणजिह्वाबलमुपहन्यते, तथा 'आउसो' हे आयुष्मन् ! अस्मिन् शरीरे षष्टयधिकं शतं १६० शिराणां नाभिप्रभवाणां नाभेरुत्पन्नानामित्यर्थः अधोगामिनीनां पाद
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy