SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽङ्कः । १७९ आर्यकः-(खगतम् ।) नरपतिपुरुषाणां दर्शनाद्भीतभीतः ____सनिगडचरणत्वात्सावशेषापसारः । • अविदितमधिरूढो यामि साधोस्तु याने परभृत इव नीडे रक्षितो वायसीभिः ॥ ३ ॥ अहो, नगरात्सुदूरमपक्रान्तोऽस्मि । तत्किमस्मात्प्रवहणादवतीर्य वृक्षवाटिकागहनं प्रविशामि । उताहो प्रवहणस्वामिनं पश्यामि । अथ वा कृतं वृक्षवाटिकागहनेन । अभ्युपपन्नवत्सलः खलु तत्रभवानार्यचारुदत्तः श्रूयते । तत्प्रत्यक्षीकृत्य गच्छामि । स तावदस्माद्व्यसनार्णवोत्थितं निरीक्ष्य साधुः समुपैति निर्वृतिम् । शरीरमेतद्गतमीदृशीं दशां धृतं मया तस्य महात्मनो गुणैः ॥ ४ ॥ चेटः-इमं तं उज्जाणम् । जाव उवशप्पामि । (उपसृत्य ।) अज्जमित्तेअ । (क) विदषकः-भो, पिअं दे णिवेदेमि । वडमाणओ मन्तेदि । आगदाए वसन्तसेणाए होदव्यम् । (ख) चारुदत्तः-प्रियं नः प्रियम् । विदूषकः-दासीए पुत्ता, किं चिरइदो सि । (ग) (क) इदं तदुद्यानम् । यावदुपसर्पामि । आर्यमैत्रेय । (ख) भोः, प्रियं ते निवेदयामि । वर्धमानको मन्त्रयति । आगतया वसन्तसेनया भवितव्यम् । (ग) दास्याः पुत्र, किं चिरायितोऽसि । धर्मे त्यक्तकाष्टानि तैः प्रतिरुद्धगमनः ॥ २॥ नरपतीति । सावशेषः किंचि. दवशिष्टः । कोकिलपक्षे नरपतिपुरुषाः शाकुनिकाः । सनिगड इव सनिगडो बाल्यान्मन्दगमनः । यानेऽधिरूढोऽनवस्थितः । काकत्रीरक्षितकोकिल उपमानम् ॥ ३ ॥ स इति । तस्य चारुदत्तस्य महात्मनो गुणैः । तत्प्रवहणस्थस्य
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy