SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽङ्कः । (ततः प्रविशति चारुदत्तो विदूषकश्च ।) . विदूषकः--भो, पेक्ख पेक्ख पुप्फकरण्डअजिण्णुजाणस्स. सस्सिरीअदाम् । (क) • चारुदत्तः–वयस्य, एवमेतत् । तथाहि । वणिज इव भान्ति तरवः पण्यानीव स्थितानि कुसुमानि । शुल्कमिव साधयन्तो मधुकरपुरुषाः प्रविचरन्ति ॥ १ ॥ विदूषकः-भो, इमं असक्काररमणीअं सिलाअलं उवविसदु भवम् । (ख) चारुदत्तः-(उपविश्य ।) वयस्य, चिरयति वर्धमानकः । विदूषकः-भणिदो मए वमाणअ—'वसन्तसेणिअंगेण्हिा लहुं लहुं आअच्छत्ति । (ग) चारुदत्तः-तत्किं चिरयति । किं यात्यस्य पुरः शनैः प्रवहणं तस्यान्तरं मार्गते भग्नेऽक्षे परिवर्तनं प्रकुरुते छिन्नोऽथ वा प्रग्रहः ।। कर्मान्तोज्झितदारुवारितगतिर्मार्गान्तरं याचते खैरं प्रेरितगोयुगः किमथ वा स्वच्छन्दमागच्छति ॥ २ ॥ (प्रविश्य गुप्तार्यकप्रवहणस्थः) चेटः–जाध गोणा, जाध । (घ) (क) भोः, पश्य पश्य पुष्पकरण्डकजीर्णोद्यानस्य सश्रीकताम् । (ख) भोः, इदमसंस्काररमणीयं शिलातलमुपविशतु भवान् । (ग) भणितो मया वर्धमानकः- 'वसन्तसेनां गृहीत्वा लघु लघ्वागच्छ' इति । (घ) यातं गावौ, यातम् । वणिज इति । शुल्कं राजदेयम् ॥ १॥ असक्कारमिति । अकृत्रिमं खभावत एवेत्यर्थः ॥ किमिति । कर्मान्तो राजादीनां नियोगविशेषः । तत्संबन्धिनि
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy