SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १८० मृच्छकटिके चेट:-अजमित्तेअ, मा कुप्प । जाणत्थलके विशुमलिदे त्ति कदुअ गदागदि कलेन्ते चिलइदेम्हि । (क) चारुदत्तः-वर्धमानक, परिवर्तय प्रवहणम् । सखे मैत्रेय, अवतारय वसन्तसेनाम् । • विदूषकः-किं णिअडेण वद्धा से गोड्डा, जेण सण ओदरेदि । (उत्थाय प्रवहणमुद्धाट्य ।) भो, ण वसन्तसेणा, वसन्तसेणो क्खु एसो । (ख) चारुदत्तः-वयस्य, अलं परिहासेन । न कालमपेक्षते स्नेहः । अथ वा स्वयमेवावतारयामि । (इत्युत्तिष्ठति ।) आर्यक:-(दृष्ट्वा ।) अये, अयमेव प्रवहणस्वामी । न केवलं श्रुतिरमणीयो दृष्टिरमणीयोऽपि । हन्त, रक्षितोऽस्मि । चारुदत्तः-(प्रवहणमधिरुय दृष्ट्वा च ।) अये, तोऽयम । करिकरसमबाहुः सिंहपीनोलतासः पृथुतरसमवक्षास्ताम्रलोलायताक्षः । कथमिदमसमानं प्राप्त एवंविधो यो वहति निगडमेकं पादलग्नं महात्मा ॥ ५ ॥ ततः को भवान् । आर्यकः-शरणागतो गोपालप्रकृतिरार्यकोऽस्मि । चारुदत्तः-किं घोषादानीय योऽसौ राज्ञा पालकेन बद्धः । आर्यक:-अथ किम् । IA (क) आर्यमैत्रेय, मा कुप्य । यानास्तरणं विस्मृतमिति कृत्वा गतागति कुर्वश्चिरायितोऽस्मि । (ख) किं निगडेन बद्धावस्याः पादौ, येन स्वयं नावतरति । भोः, न वसन्तसेना, वसन्तसेनः खल्वेषः । चन्दनकेन रक्षितत्वात् ॥ ४ ॥ मा कुप्प मा क्रोधं कुरु ॥ गोड्डा पादौ ॥
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy