SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽङ्कः। ... १५३ एषाम्भोदसमागमप्रणयिनी स्वच्छन्दमभ्यागता रक्ता कान्तमिवाम्बरं प्रियतमा विद्युत्समालिङ्गति ॥ ४६॥ (वसन्तसेना शृङ्गारभावं नाटयन्ती चारुदत्तमालिङ्गति ।) चारुदत्तः-(स्पर्श नाटयन्प्रत्यालिङ्गय ।) भो मेघ गम्भीरतरं नद त्वं तव प्रसादात्स्मरपीडितं मे। संस्पर्शरोमाञ्चितजातरागं कदम्बपुष्पत्वमुपैति गात्रम् ॥ ४७ ॥ विदूषकः-दासीए पुत्त दुद्दिण, अणज्जो दाणिं सि तुमम् , जं अत्तभोदिं विज्जुआए भायावेसि । (क) चारुदत्तः—वयस्य, नार्हस्युपालब्धुम् । वर्षशतमस्तु दुर्दिनमविरतधारं शतहदा स्फुरतु । . अस्मद्विधदुर्लभया यदहं प्रियया परिष्वक्तः ॥ ४८ ।। अपि च । वयस्य, धन्यानि तेषां खलु जीवितानि ये कामिनीनां गृहमागतानाम् । आद्रोणि मेघोदकशीतलानि गात्राणि गात्रेषु परिष्वजन्ति ॥ ४९ ॥ प्रिये वसन्तसेने, स्तम्भेषु प्रचलितवेदिसंचयान्तं शीर्णत्वात्कथमपि धार्यते वितानम् । (क) दास्याः पुत्र दुर्दिन, अनार्य इदानीमसि त्वम्, यदभवतीं विधुता भीषयसि। रिति ॥ ४५ ॥ एतैरिति । वर्णकं विलेपनम् ॥ ४६ ॥ भो मेघेति ॥ ४७ ॥ वर्षशतमिति । अस्मद्विधदुर्लभया । दरिद्रस्य वेशावाप्तिसंभवात् ॥ ४८ ॥ धन्यानीति ॥ ४९ ॥ स्तम्भेष्वित्यादि । प्रकृतिच्छन्दसा । वितानं
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy