SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १५२ मृच्छकटिके चारुदत्तः—(सविलक्षस्मितम् ।) वसन्तसेने, पश्य पश्य । कः श्रद्धास्यलि भूतार्थं सर्वो मां तूलयिष्यति । शङ्कनीया हि लोकेऽस्मिन्निष्प्रतापा दरिद्रता ॥ ४३ ॥ विदूषकः-हले, किं भोदीए इध जेव सुविदव्वम् । (क) चेटी-(विहस्य ।) अज्ज मित्तेअ, अदिमेत्तं दाणिं उजुअं अत्ताणों दंसेसि । (ख) विदूषकः-भो वअस्स, एसो क्खु ओसारअन्तो विअ सुहोवविट्ट जणं पुणोवि वित्थारिवारिधाराहिं पविट्टो पजण्णो । (ग) चारुदत्तः-सम्यगाह भवान् । अमूर्हि भित्त्वा जलदान्तराणि पान्तराणीव मृणालसूच्यः । पतन्ति चन्द्रव्यसनाद्विमुक्ता दिवोऽश्रुधारा इव वारिधाराः ॥ ४४ ॥ अपि च । धाराभिरार्यजनचित्तसुनिर्मलाभि श्वण्डाभिरर्जुनशरप्रतिकर्कशाभिः । मेघाः स्रवन्ति बलदेवपटप्रकाशाः शक्रस्य मौक्तिकनिधानमिवोद्विरन्तः ॥ ४५ ॥ प्रिये, पश्य पश्य । एतैः पिष्टतमालवर्णकनिभैरालिप्तमम्भोधरैः __ संसक्तैरुपवीजितं सुरभिभिः शीतैः प्रदोषानिलैः । (क) चेटि, किं भवत्या इहैव सुप्तव्यम् । (ख) आर्य मैत्रेय, अतिमात्रमिदानीमृजुमात्मानं दर्शयसि । (ग) भो वयस्य, एष खल्वपसारयन्निव सुखोपविष्टं जनं पुनरपि विस्तारिवारिधाराभिः प्रविष्टः पर्जन्यः। भाण्डस्य कृते योगात् ॥ क इति ॥ ४३ ॥ अमूरिति ॥ ४४ ॥ धाराभिः
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy