SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ४६] [ उत्तराध्ययनसूत्रे-भाग-२ सकेशीकुमारश्रमणस्तत्र श्रावस्त्यां नगर्याम्, तस्याः श्रावस्त्या नगरमण्डले पुरपरिसरे तिन्दुकं नामोद्यानं वर्तते, तत्रोद्याने प्रासुके प्रदेशे-जीवरहिते शय्यासंस्तारे वासमुपागतः । शय्या-वसतिस्तस्यां संस्तारः शिलाफलकादिःशय्यासंस्तारस्तस्मिन् समवसृत इत्यर्थः॥४॥ अह तेणेव कालेणं, धम्मतित्थयरे जिणे । भगवं वद्धमाणुत्ति, सव्वलोगंमि विस्सुए ॥५॥ अथशब्दो वक्तव्यान्तरोपन्यासे । तस्मिन्नेव काले धर्मतीर्थकरो जिनो भगवान् श्रीवर्धमान इति सर्वलोके विश्रुतोऽभूत् ॥५॥ तस्स लोगपईवस्स, आसि सीसे महाजसें । भयवं गोयमं नामे, विज्जाचरणपारगे ॥ ६ ॥ तस्य श्रीवर्धमानस्वामिनो लोकप्रदीपस्य तीर्थकरस्य गौतमनामा शिष्योऽभूत् । कथंभूतो गौतमः ? महायशा-महाकीर्त्तिः, पुनः कीदृशो गौतमः ? विद्याचरणपारगोज्ञानचारित्रधारी, पुनः कीदृशो गौतमः ? भगवांश्चतुर्ज्ञानी मति-श्रुता-ऽवधिमनःपर्यायज्ञानयुक् ॥६॥ बारसंगविऊ बुद्धे, सीससंघसमाउले । गामाणुगामं रीयंते, सेऽवि सावत्थीमागए ॥७॥ .. स गौतमोऽपि ग्रामानुग्रामं विहरन् श्रावस्त्यां नगर्यामागतः । कीदृशो गौतमः ? द्वादशाङ्गवित्, एकादशाङ्गानि दृष्टिवादसहितानि येन गौतमेन सम्पूर्णानि ज्ञातानीत्यर्थः । पुनः कीदृशो गौतमः ? बुद्धो-ज्ञाततत्त्वः, पुनः कीदृशः ? शिष्यसङ्घसमाकुलः ॥७॥ कोट्टगं णाम उज्जाणं, तम्मि नगरमंडले । फासुए सिज्जसंथारे, तत्थ वासमुवागए ॥ ८ ॥ तस्याः श्रावस्त्या नगर्या मण्डले-परिसरे क्रोष्टकं नामोद्यानं वर्तते । तत्र प्रासुके शय्यासंस्तारे वासमवस्थानमुपागतः-प्राप्तः ॥ ८ ॥ केसीकुमारसमणे, गोयमे य महाजसे । उभओवि तत्थ विहरिंसु, अल्लीणा सुसमाहिया ॥९॥ केशीकुमारश्रमणश्च पुनर्गौतम एतावुभावपि व्यवाहार्टाम्-आगाताम् । कीदृशौ तावुभौ ? महायशसौ, पुनः कीदृशौ ? अलीनौ मनोवाक्कायगुप्तिष्वाश्रितौ, पुनः कीदृशौ ? सुसमाहितौ -सम्यक्समाधियुक्तौ ॥९॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy