SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ २३, केशिगौतमीयाख्यमध्ययनम् ] [४७ उभओ सीससंघाणं, संजयाणं तवस्सिणं । तत्थ चिंता समुप्पन्ना, गुणवंताण ताइणं ॥१०॥ तत्र तस्यां श्रावस्त्यामुभयोः केशीगौतमयोः शिष्यसङ्घानां संयतानां तपस्विनां साधूनां गुणवतां-ज्ञानदर्शनचारित्रवतां त्रायिणां-षड्जीवरक्षाकारिणां परस्परावलोकनाच्चिन्ता समुत्पन्ना, विचारः समुत्पन्नः ॥१०॥ केरिसो वा इमो धम्मो, इमो धम्मो व केरिसो। आयारधम्मपणिही, इमा वा सा व केरिसी ॥ ११ ॥ अयमस्मत्सम्बन्धी धर्मः कीदृशः? वा इति विकल्पे, वशब्दोऽपि वाऽर्थे, वाऽथवाऽयं धर्मो दृश्यमानगणभृच्छिष्यसम्बन्धी कीदृशः ? पुनरयमाचारधर्मप्रणिधिरस्माकं कीदृशः? पुनरेतेषां आचारधर्मप्रणिधिः कीदृशः ? प्राकृतत्वाल्लिङ्गव्यत्ययः आचारो वेषधारणादिको बाह्यः क्रियाकलापः, स एव धर्मस्तस्य प्रणिधिर्व्यवस्थापनमाचारधर्मप्रणिधिः, पृथक् पृथक् कथं ? सर्वज्ञोक्तस्य धर्मस्य तत्साधनानां च भेदे हेतुं ज्ञातुमिच्छाम इति भावः ॥११॥ चाउज्जामो य जो धम्मो, जो इमो पंचसिक्खिओ। देसिओ वद्धमाणेणं, पासेण य महामुणी ॥१२॥ अचेलगो य जो धम्मो, जो इमो संतरुत्तरो। एककज्जपवन्नाणं, विसेसो किं नु कारणं ॥१३ ॥ युग्मम् ॥ यश्चायं चातुर्यामो धर्मः पार्श्वेन महामुनिना तीर्थकरेण दर्शितः, चत्वारश्च ते यामाश्च चतुर्यामस्तत्र भवश्चातुर्यामश्चातुर्वतिकोऽहिंसा १, सत्य २, चौर्यत्याग ३, परिग्रहत्याग ४, लक्षणो धर्मः प्रकाशितः, यश्च पुनरयं धर्मो वर्धमानेन पञ्चशिक्षिकः पञ्चशिक्षितो वा, पञ्चभिर्महाव्रतैः शिक्षितः पञ्चशिक्षितः प्रकाशितः । पञ्चसु शिक्षासु भवः पञ्चशिक्षिकः पञ्चमहाव्रतात्मा, अहिंसा १, सत्य २, चौर्यत्याग ३, मैथुनपरिहार ४, परिग्रहत्याग ५, लक्षणो धर्मः प्रकाशितः ॥१२॥पुनर्वर्धमानेनाऽचेलको धर्मः प्रकाशितः, अचेलं मानोपेतं धवलं जीर्णप्रायमल्पमूल्यं वस्त्र धारणीयमिति वर्धमानस्वामिना प्रोक्तम्, असदिव चेलं यत्र सोऽचेलः, अचेल एवाऽचेलकः, यद्वस्त्रं सदप्यसदिव तद्धार्यमित्यर्थः । पुनर्यो धर्मः पार्श्वेन स्वामिना सान्तरोत्तरः, सह अन्तरेणोत्तरेण प्रधानबहुमूल्येन नानावर्णेन प्रलम्बेन वस्त्रेण च वर्तते यः स सान्तरोत्तरः सचेलको धर्मः प्रकाशितः । एककार्ये मुक्तिरूपे कार्ये प्रवृत्तयोः श्री वीरपार्श्वयोर्धर्माचारप्रणिधिविषयो विशेषस्तत्र किं नु कारणम् ? को हेतुः ? कारणभेदे हि कार्यभेदसम्भवः, कार्यं तूभयोरेकमेव, कारणं च पृथक् पृथक् कथमिति भावः, 'किमि' ति प्रश्ने, 'नु' इति वितर्के ॥१३ ॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy