________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम् ]
[ २७१
देवानां स्वकीये काये त्यक्ते सति वनस्पतिकाये व्रजति, तदोत्कृष्टमन्तरमनन्तकालं भवेत् । जघन्यतोऽन्तरमन्तर्मुहूर्तं भवेत् ॥ २४८ ॥
'अनंतकालमुक्कोसं, वासपुहत्तं जहन्नयं ।
आणयाईण देवाणां, गेविज्जाणं तु अंतरं ॥ २४९ ॥
आनतादीनां नवमदेवलोकादीनां तु पुनग्रैवेयकाणां नवानाम्, उपलक्षणत्वात्तत्र वासिनां देवानां स्वस्थानाच्च्युत्वाऽन्यत्र संसारे निगोदे समुत्पन्नानाम्, पश्चात्पुनः स्वस्थाने आगच्छतामुत्कृष्टं चेत्कालान्तरं भवेत्, तदानन्तकालान्तरं भवेत् । जघन्यं चेदन्तरं भवेत्तदा वर्षपृथक्त्वं नववर्षाणि यावद्भवतीत्यर्थः ॥ २४९ ॥
संखेज्जसागरुक्कोसं, वासपुहुत्तं जहन्नयं ।
अणुत्तराण य देवाणं, अंतरं तु वियाहियं ॥ २५० ॥
अनुत्तराणां देवानां च्यवनं भूत्वा पुनश्चेत्तत्रैवोत्पत्तिः स्यात्तदा कियदन्तरं भवेत्तदाहउत्कृष्टं तु सङ्ख्येयसागरोपमाण्यन्तरं व्याख्यातम्, जघन्यं तु वर्षपृथक्त्वं, नववर्षाणि यावत् ॥ २५० ॥
एएसिं वन्नओ चेव, गंधओ रसफासओ ।
संठाणादेसओ वावि, विहाणाई सहस्ससो ॥ २५१ ॥
एतेषां देवानां चतुर्निकायानां वर्णतो गन्धतो रसतः स्पर्शतः संस्थानादेशतश्चापि सहस्रशो विधानानि भवन्ति, अनेके भेदा भवन्ति ॥ २५९ ॥
अथ निगमयितुमाह
संसारत्थाय सिद्धा य, इइ जीवा वियाहिया ।
रूविणो चेवऽरूवी य, अजीवा दुविहा वि य ॥ २५२ ॥
संसारस्थाश्च जीवाः सिद्धाश्च जीवा इत्यमुना प्रकारेण व्याख्याताः । च पुना रूपिणोरूपिणोऽजीवाश्च व्याख्याता द्विविधा अपि कथिताः ।। २५२ ॥
अथोपदेशमाह
इइ जीवमजीवे य, सुच्चा सद्दहिऊण य । सव्वनयाणमणुमए, रमिज्जा संजमे मुणी ॥ २५३ ॥
मुनिः साधुरेवममुना प्रकारेण जीवाजीवान् गुरोर्मुखात् श्रुत्वा, पुनः श्रद्धाय संयमे सप्तदशविधे रमेदतिं कुर्यात् । कीदृशे संयमे ? सर्वनयानामनुमते, सर्वे च ते नयाश्च सर्वनया
१ इमे द्वे गाथे अन्यस्मिन् संस्करणे न स्तः ॥