SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २७२] [-उत्तराध्ययनसूत्रे-भाग-२ नैगमादयः सप्तनयाः, तेषां सर्वनयानां ज्ञानक्रियान्तर्गतानामनुमतेऽभिप्रेते, ज्ञानसहितसम्यक्चारित्ररूपे ॥ २५३ ॥ तओ बहूणि वासाणि, सामण्णमणुपालिया। इमेण कम्मजोएण, अप्पाणं संलिहे मुणी ॥२५४॥ ततश्चारित्रे रमणानन्तरं बहूनि वर्षाणि श्रामण्यमनुपाल्य मुनिरनेन क्रमयोगेनात्मानं संलिखेत्, दव्यतो भावतश्च कृशीकुर्यात् ॥ २५४ ॥ सम्प्रति संलेखनापूर्वकं क्रमयोगमाह बारसेव उ वासाइं, संलेहुक्कोसिया भवे । संवच्छरं मज्झिमिया, छम्मासा य जहन्निया ॥२५५ ॥ पढमे वासचउक्क्रमि, विगईनिज्जूहणं करे । बीए वासचउक्कंमि, विचित्तं तु तवं चरे ॥ २५६ ॥ एगंतरमायामं, कटु संवच्छरे दुवे । तओ संवच्छरद्धं तु, नाइविगिटुं तवं चरे ॥ २५७ ॥ तओ संवच्छरद्धं तु, विगिटुं तु तवं चरे । परिमियं चेव आयाम, तंमि संवच्छरे करे ॥ २५८ ॥ कोडीसहियमायाम, कटु संवच्छरे मुणी । मासद्धमासिएणं तु, आहारेणं तवं चरे ॥ २५९ ॥ द्वादशैव वर्षाण्युत्कृष्टा संलेखना भवेत्, संलेखनं द्रव्यतो भावतश्च कृशत्व करणम्। संलेखना द्रव्यतः शरीरस्य कृशीकरणम्, भावतश्च कषायाणां कृशीकरणम् । संवत्सरमेकवर्ष मध्यमिका संलेखना भवेत्, जघन्यिका संलेखना षण्मासी भवेत् ॥ २५५ ॥ संलेखनायास्त्रैविध्येऽनुक्रममाह-प्रथमे आद्ये वर्षचतुष्के विकृतिनियूहनम्, विकृतीनां पञ्चानां त्यागमाचाम्लनिविकृत्यादितपः कुर्यादित्यर्थः । द्वितीये वर्षचतुष्के विचित्रमेव चतुर्थषष्ठोष्टमादिरूपं तपश्चरेत् ॥ २५६ ॥ ततो द्वौ संवत्सरौ यावदेकेन चतुर्थलक्षणेन तपसान्तरं व्यवधानं यस्मिंस्तदेकान्तरमायाममाचाम्लं कृत्वा तपश्चरेत् । ततस्तदनन्तरं संवत्सरार्धं यावन्मासषट्कं यावदतिविकृष्टमष्टमद्वादशादितपोऽनाचरेन सेवेत ॥ २५७ ॥ ततस्तु संवत्सरार्धं मासषट्कं तु विकृष्टं षष्ठोष्टमादितप आचरेत् । परंतत्रायं विशेषः
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy