SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ २६, सामाचार्याख्यमध्ययनम्] [९७ 'आयरियउवज्झाय' इति गाथात्रयं पठित्वा, ततः पश्चात्कायोत्सर्ग चारित्रदर्शनश्रुतज्ञानशुद्धयर्थं कुर्यात्, जातित्वादेकवचनम् । कीदृशं कायोत्सर्ग ? सर्वदुःखविमोक्षणम् ॥४२॥ 'पारियकाउस्सग्गो, वंदित्ताण तओ गुरुं। थुइमंगलं च काउं, कालं संपडिलेहए ॥ ४३ ॥ पश्चात्पालितकायोत्सर्गो नमस्कारपूर्वं 'लोग्गस्सुज्जोयगरे' इत्यनेन पारयित्वा, ततोऽनन्तरं द्वादशावर्त्तवन्दनेन गुरुं वन्दित्वा 'इच्छामो अणुसिट्ठियं, इत्युक्त्वा, स्थित्वा पश्चात्स्तुतिमङ्गलं च स्तुतित्रयात्मकं वर्धमानाक्षरस्तुतित्रयपाठरूपं मङ्गलं कृत्वा कालं प्रत्युपेक्षते - प्रतिजागर्ति, तदवसरसत्कं कालं कालग्रहणं साधुर्गृह्णातीत्यर्थः ॥ ४३ ॥ ततोऽनन्तरं यत्करणीयं तदाह पढमं पोरिसि सज्झायं, बीइए झाणं झियायई । तईयाए निद्दमोक्खं तु, सज्झायं तु चउत्थीए ॥ ४४ ॥ प्रथमपौरुष्यां स्वाध्यायं कुर्यादिति शेषः । द्वितीयायां ध्यानं पिण्डस्थादिकं धर्मध्यानादिकं चाधीतसूत्रार्थं ध्यायेच्चिन्तयेत् । तृतीयायां निद्राया मोक्षो निद्रामुत्कलता विधेया, चतुर्थ्यां पुनरपि स्वाध्यायं कुर्यात् । द्वितीयवारकथनाच्छिष्याय गुरुभिरुपदेशो दातव्यः, न तु पाठने प्रयासश्चिन्तनीय इति ज्ञेयम् ॥ ४४ ॥ चतुर्थ्याः पौरुष्याः कृत्यमाह पोरिसीए चउत्थीए, कालं तु पडिलेहए । सज्झायं तु तओ कुज्जा, अबोहं तु असंयए ॥ ४५ ॥ चतुर्थ्यां पौरुष्यां पुनः कालं प्रतिलेख्य-प्रत्युपेक्ष्य प्रतिजागर्य, प्राग्वद्गृहीत्वा ततः स्वाध्यायं कुर्यात्, परं किं कुर्वन् स्वाध्यायं कुर्यात् ? असंयतीन् गृहस्थानबोधयन्नजागरयन् शनैः शनैः पठन्नित्यर्थः । उच्चैः पठनश्रवणाद् गृहस्थाः सावधव्यापारं कुर्वन्ति, तदा साधुरप्यारम्भक्रियाभाक् स्यादिति भावः ॥ ४५ ॥ पोरिसीए चउब्भाए, वंदिऊण तओ गुरुं । पडिक्कमित्ता कालस्स, कालं तु पडिलेहए ॥ ४६ ॥ चतुर्थ्याः पौरुष्याश्चतुर्थभागेऽवशेषे सति घटिकाद्वये रजन्या अवशिष्टे सति, तदा हि कालवेलासम्भवान्न कालस्य ग्रहणं, तस्मात्ततो गुरुं वन्दित्वा द्वादशावर्त्तवन्दनं दत्वा कालस्येति तत्समययोग्यं कालं प्रतिक्रम्य तत्सम्बन्धिनी क्रियां कृत्वा, तु पुनः कालं १ सिद्धाणं संथवं किच्चा, वंदित्ताण-अन्यसंस्करणे ॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy