SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ९६ ] [ उत्तराध्ययनसूत्रे - भाग - २ मुनि: पौरुष्या अर्थाच्चतुर्थ्याः पौरुष्याश्चतुर्भागे शेषे गुरुं वन्दित्वा ततः स्वाध्यायादनन्तरं कालस्य कालं प्रतिक्रम्य तु पुनः शय्यां वसतिं प्रतिलेखयेत् ॥ ३८ ॥ पासवणुच्चारभूमिं च, पडिलेहिज्ज जयं जई । काउस्सग्गं तओ कुज्जा, सव्वदुक्खविमोक्खणं ॥ ३९॥ ततः पश्चाद्यतिः - साधुर्यत्नावान् सन् यत्नया प्रश्रवणोच्चारभूमिं प्रत्येकं द्वादशस्थण्डिलात्मकां, चशब्दात्कालभूमिं च स्थण्डिलात्मकां प्रतिलेखयेत्, लघुनीतिस्थाने द्वादशमण्डलानि, बृहन्नीतिस्थाने च द्वादशमण्डलानि कालग्रहणभूमिस्थाने मण्डलानि त्रीणि, एवं सप्तविंशतिमण्डलानि कुर्यात् । दिनकृत्यमुक्त्वोत्तरार्धेन-रात्रिकृत्यमारभ्यते - ततो भूमिप्रतिलेखनानन्तरं कायोत्सर्गं कुर्यात् कीदृशं कायोत्सर्गं ? सर्वदुःखविमोक्षणम्, कायोत्सर्गेण महती कर्मनिर्जरा, यदुक्तं ""काउस्सग्गे जह सुठियस्स, भज्जंति अंगुवंगाई । इइ भज्जति सुविहिया, अट्ठविहं कम्म संघायं ॥ १ ॥ " कायोत्सर्गस्यैहिकामुष्मिकफलं स्यात्, ऐहिकं यशोदेवाकर्षणादिकम्, आमुष्मिकं च स्वर्गापवर्गादिकसुखप्राप्तिरूपम् अत्र सुदर्शनकथा ॥ ३९ ॥ देवसियं च अइयारं, चिंतिज्ज अणुपुव्वसो । नाणे य दंसणे चेव, चरित्तंमि तहेव य ॥ ४० ॥ कायोत्सर्गं च कृत्वा च पुनर्देवसिकमतीचारं ' अणुपुव्वसो' अनुक्रमेण ज्ञाने दर्शने चारित्रे, तथैवानुक्रमेणैव चिन्तयेत् ॥ ४० ॥ पारियकाउस्सग्गो, वंदित्ताण तओ गुरुं । देवसियं तु अइयारं, आलोइज्ज जहक्कमं ॥ ४१ ॥ ततः पालितकायोत्सर्गः सन् साधुर्गुरुं द्वादशावर्त्तवन्दनेन वन्दित्वा तु पुनर्यथाक्रमं दैवसिकमतीचारमालोचयेत् ॥ ४१ ॥ पडिक्कमित्ता निस्सल्लो, वंदित्ताण तओ गुरुं । काउस्सग्गं तओ कुज्जा, सव्वदुक्खविमोक्खणं ॥ ४२ ॥ ततः प्रतिक्रम्याऽपराधस्थानेभ्यः प्रतिकूलं निवृत्य, प्रतिक्रमणसूत्रमुक्त्वा निःशल्यः सन् - शल्यरहितो भूत्वा ततः पश्चाद् गुरुं द्वादशावर्त्तवन्दनेन वन्दित्वा, श्रीगुरुं च क्षमयित्वा " १ कायोत्सर्गे यथा सुस्थितस्य अङ्गोपाङ्गानि भञ्जन्ति । तथा भञ्जन्ति सुविहिता अष्टविधं कर्मसङ्घातम् ॥ १ ॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy