________________
णिद्देसवत्तित्ति, निर्देशवर्तिन:-आज्ञावर्तिनः पुनर्ये गुरूणां-आचार्यादीनां श्रुतार्थधर्मा इति प्राकृतशैल्या श्रुतधर्मार्था गीतार्था इत्यर्थः विनये कर्तव्ये कोविदा-विपश्चितः, य इत्थंभूतास्तीत्वा॑ ते महासत्त्वा ओघमेनंप्रत्यक्षोपलभ्यमानं संसारसमुद्रं दुरुत्तारं तीद्वेव तीर्खा, चरमभवं केवलित्वं च प्राप्येतिभावः, ततः क्षपयित्वा कर्म निरवशेषं भवोपग्राहिसंज्ञितं गतिमुत्तमां सिद्धयाख्यां गताः-प्राप्ताः ॥४३८।। इति ब्रवीमीति पूर्ववत् । विनयसमाधी व्याख्यातो द्वितीय उद्देशक: ९-२ ॥
॥ साम्प्रतं तृतीय आरभ्यते, इह च विनीतः पूज्य इत्युपदर्शयन्नाहआयरियं अग्गिमिवाहियग्गी,
सुस्सूसमाणो पडिजागरिज्जा । आलोइयं इंगियमेव नच्चा,
जो छंदमाराहयई स पुज्जो ॥४३९॥ आयरिएत्ति, आचार्य-सूत्रार्थप्रदं तत्स्थानीयं वाऽन्यं ज्येष्ठार्य, किमित्याह-अग्निमिव-तेजस्कायमिव आहिताग्नि-ब्राह्मणः सुश्रूषयन्सम्यक् सेवमानः प्रतिजागृयात्तत्तत्कृत्यसम्पादनेनोपचरेत् । आहयथाऽऽहिताग्निरित्यादिना प्रागिदमुक्तमेव, सत्यं, किं तु तदाचार्यमेवाङ्गीकृत्य इदं तु रत्नाधिकमप्यधिकृत्योच्यते, वक्ष्यति च-"रायणिएसु विणयमि" त्यादि, प्रतिजागरणोपायमाह-अवलोकितं-निरीक्षितं इङ्गितमेव च-अन्यथावृत्तिलक्षणं ज्ञात्वा-विज्ञायाचाीयं यः-साधुः छन्द:-अभिप्रायमाराधयति । यथा शीते पतति प्रावरणावलोकने तदानयने, इङ्गिते वा निष्ठीवनादिलक्षणे शुण्ठ्याद्यानयनेन स पूज्यः स इत्थंभूतः साधुः पूजार्हः-कल्याणभागिति ॥४३९॥
प्रक्रान्ताधिकार एवाह-- श्रीदशवैकालिकम् ।
१७५