________________
आयारमट्ठा विणयं पउछु,
सुस्सूसमाणो परिगिज्झ वक्कं । जहोवइ8 अभिकंखमाणो,
गुरुं तु नासाययई स पुज्जो ॥४४०॥ आयारेत्ति, आचारार्थ-ज्ञानाद्याचारनिमित्तं विनयमुक्तलक्षणं प्रयुङ्क्ते -करोति यः सुश्रूषन्-श्रोतुमिच्छन्, किमयं वक्ष्यतीत्येवं, तदनु तेनोक्ते सति परिगृह्य वाक्यमाचार्टीयं, ततश्च यथोपदिष्टं-यथोक्तमेवाभिकाङ्क्षन्, मायारहितः श्रद्धया कर्तुमिच्छन् सन् विनयं प्रयुङ्क्ते, अतोऽन्यथाकरणेन गुरुं विति, आचार्यमेव नाशातयति-न हीलयति यः स पूज्य इति ॥४४०॥ रायणिएसु विणयं पउञ्जे,
डहरावि य जे परियायजिट्ठा । नीयत्तणे वइ सच्चवाई,
उवायवं वक्ककरे स पुज्जो ॥४४१॥ किंच-राइणिएत्ति, रत्नाधिकेषु-ज्ञानादिभावरत्नाभ्यधिकेषु विनयंयथोचितं प्रयुक्ते करोति, तथा डहरा अपि च ये वयः श्रुताभ्यां पर्यायज्येष्ठाश्चिर-प्रव्रजितास्तेषु विनयं प्रयुङ्क्ते, एवं नीचत्वे गुणाधिकान् प्रति नीचभावे वर्तते, सत्यवादी-अविरुद्धवक्ता तथा अवपातवान्वन्दनशीलो निकटवर्ती वा एवं च यो वाक्यकरो-गुरुनिर्देशकरणशीलः स पूज्य इति ॥४४१॥ अन्नायउंछं चरई विसुद्ध,
जवणट्ठया समुयाणं च निच्चं । अलद्धयं नो परिदेवइज्जा,
लद्धं न विकत्थई स पुज्जो ॥४४२॥
१७६
श्रीदशवैकालिकम् ।