SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ शान्तिकर्मगृहं गिरिगृहं कंदरा गिरिगुहा शैलोपस्थापनं पाषाणमण्डपः कर्मान्तानि वा भवनगृहाणि वा, ये भगवन्तस्तथाप्रकाराणि आदेशनानि आवेशनानि वा यावद् गृहाणि वा तैश्चरकब्राह्मणादिभिः अवपतद्भिः पूर्वम् अभिक्रान्तानि पश्चात् साधवः अवपतन्ति अवतरन्ति, अयम् आयुष्मन्! अभिक्रान्तक्रियारूपोऽल्पदोष अल्पदोषा चेयं वसति ॥ ८० ॥ एतद्विपरीतमाह - इह खलु पाईणं वा जाव रोयमाणेहिं बहवे समणमाहणअतिहिकिवणवणीमए समुद्दिस्स तत्थ अगारीहिं अगाराहं चेइयाइं भवंति, तं. - आएसणाणि वा जाव भवणगिहाणि वा, जे भयंतारो तहप्प, आएसणाणि जाव गिहाणि वा तेहिं अणोवयमाणेहिं ओवयंति अयमाउसो ! अणभिक्कंतकिरिया यावि भवइ । । सूत्र- ८१ ।। इह खलु प्राच्यां वा ४ यावत् रोचयद्भिर्बहून् श्रमणब्राह्मणाऽतिथिकृपणवनीपकान् समुद्दिश्य तत्र तत्र अगारिभिः अगाराणि चेतितानि भवन्ति, तद्यथा - आदेशनानि यावद् भवनगृहाणि वा, ये भगवन्तस्तथाप्रकाराणि आदेशनानि यावद् गृहाणि वा तैः चरकब्राह्मणादिभिः अनवपतद्भिः अवपतन्ति अवतरन्ति अयम् आयुष्मन् ! अनभिक्रान्तक्रियारूपो दोषश्च भवति । इयं वसति: अनभिक्रान्तत्वादेवाऽकल्पनीयेति ।। ८१ ।। साम्प्रतं वर्ज्याभिधानां वसतिमाह इह खलु पाईणं वा ४ जाव कम्मकरीओ वा, तेसिं च णं एवं वुत्तपुव्वं भवइ - जे इमे भवंति समणा भगवंतो जाव उवरया मेहुणाओ धम्माओ, नो खलु एएसिं भयंताराणं कप्पइ आहाकम्मिए उवस्सए बत्थए, से जाणिमाणि अम्हं अप्पणो सयट्टाए चेइयाइं भवंति, तं.. आसणाणि वा जाव गिहाणि वा, सव्वाणि ताणि समणाणं निसिरामो, अवियाइं वयं पच्छा अप्पणो सयट्ठाए चेहस्सामो, तं. आएसणाणि वा जाव., एयप्पगारं निग्घोसं सुच्चा निसम्म जे भयंतारो तहप्प. आएसणाणि वा जाव गिहाणि वा उवागच्छंति इयराइयरेहिं पाहुजेहिं बट्टेति, अयमाउसो ! वज्जकिरियावि भवइ ५ । । सूत्र- ८२ ।। इह खलु प्राच्यां वा ४ यावत् कर्मकर्यो वा, तेषां चैवं उक्तपूर्वं भवति - ये इमे भवन्ति श्रमणा भगवन्तो यावद् उपरता मैथुनाद् धर्मात्, न खलु एतेषां भगवतां कल्पते आधाकर्मिक उपाश्रये वस्तुम् अथ यानि इमानि अस्माकम् आत्मना स्वार्थं चेतितानि कृतानि भवन्ति, तद्यथा - आदेशनानि वा यावद् गृहाणि वा, सर्वाणि तानि श्रमणेभ्यः निसृजामः, अपि च वयं पश्चात् आत्मना स्वार्थं चेतयिष्यामः करिष्यामः तद्यथा - आदेशनानि वा यावत्, एतत्प्रकारं निर्घोषं श्रुत्वा निशम्य ये भगवन्तस्तथाप्रकाराणि आदेशनानि वा यावद् गृहाणि वा उपागच्छन्ति इतरेतरेषु प्राभृतेषु कर्मोपादानप्रधानदोषैर्नरकादिदुःखं प्राभृतीक्रियन्ते यैस्तेषु गृहेषु यदि वर्तन्ते तदा इयम् आयुष्मन् ! वर्ज्यक्रियाऽभिधाना वसतिश्च भवति सा च न कल्पत इति ।। ८२ ।। इदानीं महावर्ज्याभिधानां वसतिमधिकृत्याह - आचाराङ्गसूत्रम् - ४७
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy