SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ४४२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सोढुं स्वकीयस्य शरीरकस्य, ___दौर्बल्यहेतोः समभूदशक्तः ॥२१९॥ समादिशत् सूरिवरस्ततोऽसौ, व्याख्यानहेतोनिजविज्ञशिष्यम् । गणीशसंपद्विजयं श्रुतशं, ___पन्यासमत्युच्चपदातिवित्तम् ॥२२०॥ एतेऽपि पन्यासवरा गुरूणां, ___ सूरीश्वराणां समवाप्य चाज्ञाम् । सद्बोधकस्याऽऽगमसारभाजो, 'वंदित्तु' सूत्रस्य वरेण्यटीकाम् ॥२२१॥ तथाऽधिकारे वरभावनाख्ये, कैवल्यभाजः शिवसौख्यलब्धुः । श्रीमज्जयानन्दविभोश्चरित्र मुत्साहतो वाचयितुं प्रवृत्ताः ॥२२२॥ (युग्मम् ) व्याख्यानशैल्या अतिसुन्दरत्वात्, सुश्रोतृवर्गे हि रसोऽतिजातः । ततश्च वाचामृतपानहेतोः, सच्छ्रावकौघः समगस्त तत्र ॥२२३॥ तथा च योगीश्वर-नीतिसूरि वर्षतुकाले समकारयत् सः । चतुर्दशाङ्काङ्कितपूर्वनाम, तपो गरिष्ठं सुकृतैर्वरिष्ठम् ॥२२४॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy