SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् साऽवोचतैनं त्वयकाऽधुना कथं ?, ह्याकारिताऽहं दिश कृत्यमाशु मे । सोऽप्यब्रवीत्तां कुरु नः सहायतां, ___ संवेग-शैथिल्य-विभागमिच्छताम् ॥११९॥ सा देविका तं पुनरेवमूचुषी, स्वामिन्नवश्यं तव मानसेप्सितम् । सिद्धिं व्रजिष्यत्यचिरेण सद्गुरो !, ___ व्याहृत्य चैवं ह्यभवत्तिरोहिता ॥१२०॥ उपजातिः - निशीथचूर्णी-धृत-पाठमूलात्, संवेगि-चिह्न विदधे स एवम् । चूर्णैः सुमिश्रीकृत-खादिरेण, रागेण रक्ती( पीती )कृतमुत्तरीयम् ॥१२१॥ दिनाच्च तस्माच्छ्रमणा अशेषाः, संवेगिनस्तादृशमुत्तरीयम् । धर्तुं हि लग्ना अमुनैव तेषां, जातो विभागः शिथिलीभवद्भ्यः ॥१२२॥ यत्साम्प्रतं चाऽऽर्हत-साधु-साध्व्यः, तद्रञ्जनं जात्वपि नैव कुर्वते । यदृच्छया केशरकाऽऽदिनैव, तद्रञ्जयन्ते तदयुक्तमेव ॥१२३॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy