SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ३४१ उदयपूरे धर्मबिजविकस्वरक्षमा शासनप्रभावना । संवत्सराणां नवतेश्च पश्चाद्, अस्मिन् सुवर्षे जन-ताप-कर्षे । महाप्रभावाऽन्वितसूरिराज श्रीनीतिसूरेरुपदेशतोऽभूत् ॥८५२॥ श्रीमार्गशीर्षाख्यसुमान्यमासे, सिताह्वपक्षे प्रतिपत्तिथौ च । महैः सहोच्चैर्वरघोटकोऽस्मिन्, निष्काशितः पौरवरैः सहर्षम् ॥८५३॥ वंशस्थम् - असावलङ्कारयुतैर्हि पञ्चभि गजैस्तुरङ्गैश्च सुवेषशोभितैः । विचित्रवाद्यैः पदिका-ऽश्ववारणैः, सुरम्ययानैरभवन्मनोहरः ॥८५४॥ उपजाति: - एतादृशेनोच्चमनोहरेण, जनौघविस्मापनकारकेण । प्रभावना श्रीजिनशासनस्य, आसीत् प्रशस्या परमादरेण ॥८५५॥ श्रीमार्गशीर्षस्य सिते सुपक्षे, शुच्यां तिथौ पञ्चमिताऽङ्कभाजि । सन्मालिकारोपणकार्यमासित्, सूरीश्वराणां वरदात् कराब्जात् ॥८५६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy