SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २५० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् प्राचीनतीर्थस्त्वयमस्ति लोके, बभूव पूर्वं विजयाऽऽख्य इभ्यः । आदर्शभूतो विजयाऽभिधाना, जगत्प्रधाना महती च राज्ञी ॥३७६॥ नगर्यपि प्राच्यतरा विशाला, __ सुश्रावकाणां निलयैश्च पूर्णा । अनेकसच्चैत्यविभूषिताऽऽसीत्, तत्राऽधुना वर्तत एकचैत्यम् ॥३७७॥ कच्छीययात्रां सकलां विधाय, चागत्य रेमन्तनगोपरिष्टात् । द्वाविंशतीर्थङ्करनेमिनाथं, विलोकयामास समस्त-संघः ॥३७८॥ संघाऽधिप-श्रेष्ठिनगीनदास स्याऽऽचार्यवर्यः प्रभु-नीतिसूरिः । सत्तीर्थमालां परिधाप्य तस्थौ, सुखेन तस्मिन् कति वासराणि ॥३७९॥ जनाः सहस्त्रं खलु पञ्च तस्मिन्, सङ्के गरिष्ठे सकलाः समासन् । रेमन्तशैलोपरि सङ्गतानां, नृणां सहस्रं तिथिसंख्यमासीत् ॥३८०॥ प्रस्थाय तस्मात् स हि सूरिराजः, समागमज्जेतपुरं सशिष्यः । तत्रत्यसंघस्य महाऽऽग्रहेण, गुर्वागमोद्भूत-गुरु-प्रहर्षः ॥३८१॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy