SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २२२ __ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् आमन्त्रणं वार्षिकवासहेतो - ___ रुपागमत्सूरिवरस्य पार्श्वे ॥२२६॥ तदीयमत्याग्रहपूर्ण-मङ्गी चकार सूरीश्वर एषकोऽपि । लाभस्य तत्राऽधिकतां विदित्वा, शान्तः प्रदान्तः करुणामयः सः ॥२२७॥ संस्थाप्य तत्राऽपि च सूरिराजः, सेवासमाजं जनता-हिताय । सम्प्रस्थितस्तत्पुरतः सशिष्यो, वेरावलाऽऽख्यं पुरमाजगाम ॥२२८॥ गुर्वागमात्पौरजनाः प्रहृष्टा, बेण्डाऽऽदि-निःशेष-विशेष-वाद्यैः । नदद्भिरुच्चैः सह शङ्खनादैः, पीनस्तनीनां वर-कामिनीनाम् ॥२२९॥ सद्रागबद्धैर्मधुरैश्च गीतै रागत्य तस्याऽभिमुखं समस्ताः । श्रीमन्तमेनं मुनिराज-नीति सूरीश्वरं स्वं पुरमानयन्त ॥२३०॥ (युग्मम्) वसन्ततिलका - जीमूत-नाद-परिजित्वर-मिष्ट-वाचा, जीर्णोद्धृताऽऽदि-विषयोपरि सूरिमुख्यः । सद्देशनां परिददत्समुपादिदेश, __ श्रीरैवताऽद्रि-वर-तीर्थ-समुद्धृतिं सः ॥२३१॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy