SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ जूनागढराजामात्यस्य वेरावले चरित्रनेतुः समीप आगमनम्। २२३ स्वीकुर्वते यदिह धीर-महापुमांसः, प्राणान्तिकेऽपि तदमी न हि सन्त्यजन्ति । सम्पादयन्ति तदवश्यमनेकयत्नै यत्तादृशी प्रकृतिरेव महाजनानाम् ॥२३२॥ जूनागढ-क्षितिप-मन्त्रिवरोऽपि तर्हि, - तत्राऽऽगमत् परमधार्मिक-कृत्यकारी । वेरावले त्रिभुवनाऽऽदिक-दास-दूले रायः प्रसिद्धपुरुषो गुरु-देव-भक्तः ॥२३३॥ उपजातिः - तत्रत्य-सुश्रावक-देवकर्ण खुशालचन्द्राऽभिधकस्य गेहे। वैवाहिकश्चारुमहाश्च( वर्यः), प्रावर्तताऽस्मिच्छुभ-सुप्रसङ्गे ॥२३४॥ चैत्येऽपि सच्छेष्ठिवरस्तदर्थं, चकार पूजां महतीं जिनस्य । समागमन्मन्त्रिवरोऽपि तस्या माचार्यवर्योऽपि तदाग्रहेण ॥२३५॥ तदैतदाचार्यवर-प्रणुन्न स्तत्रत्य-संघोऽवसरं च लब्ध्वा । इत्वा तदभ्याशममुं ययाचे, रेमन्त-जीर्णोद्धृति-कर्तु(द्धरणार्थ)माज्ञाम् ॥२३६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy