SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १८२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् साध्व्यश्चाऽपि कियत्यः, सम्मिलिताः शुभभावनावत्यो हि । सायं प्रातः सर्वे, प्रतिक्रमाऽऽदिकं कुर्वन्तः ॥४॥ उपजातिः - सानन्दमित्थं सह सकेन, तत्तीर्थ-यात्रां विधिवद्विधाय । समम्पुनस्तेन सशिष्य एष, समागतोऽभूदणहिल्लपुर्याम् ॥५॥ भुजङ्गप्रयातम् - कनासाप्रतोल्यां महोपाश्रयेऽसौ, वितस्थे सहाऽशेष-शिष्यैर्मुनीन्दुः । पुरे तत्र रथ्या महाविस्तृतेयं, समृद्धाश्च जैनाऽऽलयाः सन्ति सर्वे ॥६॥ त्रिचैत्यानि तत्राऽधुनाऽप्युल्लसन्ति, रथाश्चाऽतिदीर्घास्त्रयो भान्ति रम्याः । सुभक्ता गुरौ चाऽपि देवे स्वकीये, ___ऽनुकम्पां वितन्वन्ति जीवेषु लोकाः ॥७॥ रेजुश्च पन्यास-भावाऽभिधानो, महाराज एतच्चरित्रस्य नेता । मुनिर्मुक्तिनामा मुनी राजनामा, सुरेन्द्राऽऽख्य-कल्याण-मुन्यादयश्च ॥८॥ चतुर्मासमध्ये सदा देशनायां, विपाकं च सूत्रं गिरा मिष्टया हि । सभायां महत्यामवाचि प्रकामं, चरित्रस्य नेत्रा महातत्त्ववेत्रा ॥९॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy