SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १८१ पत्तनपूरात् केशरीयाजीतीर्थयात्रा संघेन सह । नुत्वा च पद्यै रुचिरैश्चिरं स, ___ आत्मनमत्यन्तममस्त धन्यम् ॥१९६॥ इतो विहृत्याऽऽगतवान्मुनीन्दुः, क्रमात्पुरं पत्तननामधेयम् । आकर्ण्य पौरा गमनं (?) गुरूणां, सद्धेण्ड-भेरीप्रमुखैः सुवाद्यैः ॥९९७॥ दन्ध्वन्यमानैर्युगपत्समस्तैः, समेत्य तस्याऽभिमुखं प्रगीतैः । सुश्राविकाणां परिपूर्णचन्द्र बिम्बाऽऽननानाममितैश्च लोकैः ॥९९८॥ इत्थं स्वकीयं नगरं प्रहृष्टाः, प्रावेशयंस्ते मुनिराजमेनम् । सत्क्षेत्रवासाऽभिध-पाटकीय, उपाश्रये सम्यगतिष्ठिपंश्च ॥९९९॥(त्रिभिर्विशेषकम्) आर्या - तत्फोक( फ)लियावाडा-वासि-मोतीलाल-पोपटलालौ । छोटालालश्च केश-रियाजि-संघे चलितुमेनम् ॥१०००॥ बह्वाजगृहुस्तेषां, तमुररीकृत्य विनिर्गते संघे । अयमपि चरित्रनेता, सम्मिमेल तत्र सह शिष्यैः ॥१॥ सुपन्न्यास-दयाविजय-तिलक-राजविजयोदय-श्रमणैश्च । सुमुनि-कल्याण-विजय-प्रमुखबहुविचक्षणैः कतिभिः ॥२॥ पन्न्यासो मणिविजयः, प्रवर्तकोपाधिक-कान्तिविजयश्च । सहस्त्रद्वयसे तस्मिन्, सह कति-परिवारैः समासीत् ॥३॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy