SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १५८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तत्रत्यराणोदयसिंहनामा, .. विजित्य तये॒नमकब्बराऽऽख्यम् । निवर्तयामास तमाशु देशात्, परैरजय्यो जगदेकवीरः ॥८७२॥ पुनः पुनश्चाऽऽक्रमणं विधाय, नैकोऽपि मौहम्मदराज एत्य । प्रान्ते ह्यभाङ्क्षीत्स हि दुर्गमेतत्, सैन्यैरसंख्यै रण-धीर-वीरैः ॥८७३॥ रणे च तं जेतुमशक्यमेष, राणोदयः सिंह उदारबुद्धिः । स्वं त्रातुकामो रणतः पलाय्य, स्वकीय-नाम्ना नगरं विशालम् ॥८७४॥ निर्माय तत्राऽकृत राजधानी, पुरं तदद्याप्युदयाऽऽद्यमेतत् । लोकेऽद्वितीयं विचकास्ति रम्यं, यशो-गरिष्ठं भुवि विद्यतेऽस्य ॥८७५॥ (युग्मम्) तदुत्तरं श्रीरणवीर-राणा प्रतापसिंहो निजदोर्बलेन । तच्चाऽपि दुर्गं निजसाच्चकार, भामाऽऽख्यशाहस्य बलेन भूयः ॥८७६॥ तद्राजधान्यां समभूदहल्या नाम्नी सुराज्ञी जगदेकवीरा । सतीत्व-वीरत्व-मतल्लिकाऽसा वादर्शभूता जगदर्चनीया ॥८७७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy