________________
१५४
मालिनी
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
उपजाति:
अभ्यर्थयामास ततः समस्तसंघो गुरुं तारकमद्वितीयम् ।
प्रावृष्यवस्थानमिहैव कर्तुं,
प्रौढप्रतापं करुणानिधानम् ॥८५२ ॥
लाभस्य बाहुल्यमुदीक्ष्य तत्र, तदाग्रहं सादरमग्रहीत्सः । मध्ये चतुर्मासमसौ विशेष
तत्त्वाऽवबोधं समजिग्रहत्तान् ॥८५३॥
तिलक-विजय-धीमच्चन्दनाऽऽख्योदयाऽऽख्याः,
कुशमुखमति-कल्याणाऽभिधानः सुविद्वान् । प्रमुख - बहुविनेया गौरवाऽछ्रयब्ज-भृङ्गा,
गुरुवचन - सुसेवा - तत्पराः पार्श्व आसन् ॥८५४॥
पञ्चासक-ग्रन्थमशेषतत्त्व
वेत्ता सुवक्ता सदसद्विवेक्ता ।
व्याख्यातुमारब्ध समस्त - जैना:,
संश्रोतुमुत्कास्तदुपेतवन्तः ॥८५५ ॥
अथैकदा संसदि सर्वलोक
समक्षमाख्यद्गुरुराज एवम् ।
यत्सिद्धशैलोपरि राजकीयः,
करो नियुक्तः प्रतिवत्सरीयः ॥८५६ ॥