SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १५५ वीरमग्रामे चतुर्मासकरणम् । मुद्रासहस्त्रं तिथिदघ्नमेता __वदाय आयाति न यात्रिकेभ्यः । अतश्च सर्वैः खलु भारतीयैः, संगृह्य तावन्ति च रौप्यकाणि ॥८५७॥ तत्राऽमदावादपुरे विशाले, चाऽऽनन्दकल्याणिक-पीठिकायाम् । सम्प्रेषणीयानि यदेष संघो, . दधाति लोकोत्तरदानशक्तिम् ॥८५८॥ (त्रिभिर्विशेषकम्) असङ्घयवाचः सुगुरो-रमुष्य, सारोपदेशादरमेव संघः । चित्वा च मुद्राऽयुतमाशु तत्र, संप्रेष्य चौदार्यमदीदृशत्सः ॥८५९॥ शार्दूलविक्रीडितम् - इत्थं वीरम-गाम-नामनगरे ख्याते महीमण्डले, व्योमाऽश्व-ग्रह-यामिनीपति (१९७०)-मिते सम्वत्सरे वैक्रमे । सानन्दं प्रतिबोधयन्नहरहः श्राद्धांश्च सुश्राविकाः, व्यत्यैन्मासचतुष्टयं मुनिवरः श्रीमानसौ सद्गुरुः ॥८६०॥ धर्मोपासनमुच्चकैः कतिविधं श्राद्धाश्च सुश्राविकाः, चक्रुः केचन संललुश्च नियमानत्यादरादत्यजन् । यावञ्जीवमभक्ष्य-कन्द-लशुनाऽऽदीनां च वल्भामपि, सावधं व्यसनं समस्तमपरेऽत्याक्षुः पर-स्त्रीगमम् ॥८६१॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy