SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १२६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् औपच्छन्दसिकम् - तदधिकभावं विलोक्य तेषां, - गुरुरथ शुभदिवसे यथाविधानम् । बहुभिः स्त्रीपुंसकैस्तदः, प्राररम्भत महामहेन तद्धि ॥७०३॥ परिपूर्णत्वं गते च तस्मिन्, सुचारु-मालारोपणोत्सवोऽभूत् । वसुदिवसीयः प्रभावनाऽर्चा - कारि भगवतो भक्तितो गरिष्ठा ॥७०४॥ शार्दूलविक्रीडितम् - पादोन-द्विशत-प्रमाण-गणिताः सुश्रावक-श्राविकाः, आसंस्तत्र महोपधानतपसि प्राप्तप्रवेशाः समे । शश्वद्धर्म-गुरूपसेवनरताः स्वाचार-पूतीकृताः, साऽवद्याऽखिल-कर्मणा विरहिता धर्मे च नित्यं रताः ॥७०५॥ पूर्णे कर्मणि संविहृत्य नगरात्तस्मादसौ सद्गुरुवीजापुर-निवासि-संघनिकराऽत्यन्ताऽऽगृहीतः प्रभुः । तत्राऽऽगात् पुरवासिनश्च सुजनास्तौर्याऽऽरवै.कधैरत्युच्चैः पुरमानयन्त विबुधं श्रीमन्तमेनं गुरुम् ॥७०६॥ उपजातिः - अत्राऽपि लोकैरुपधान-नाम, साङ्गं तपः कारितवान् कियद्भिः। स्त्रीभिश्च पुम्भिर्महता महेन, तदन्त-मालापरिधापनञ्च ॥७०७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy