SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ११५ राजनगर-डहेलोपाश्रये श्रुतरक्षायै उपदेशः । गीतिः - चतुर्दश-पूर्वाऽऽदीनि, बहु-दुष्कर-तपांसि भविका जीवाः । विधिनाऽऽराधितवन्तचैतद्गुरुराज-वर्यकाऽभ्याशे ॥६४४॥ स्रग्धरा - पुर्यां तस्यां तदानी-मनलकृत-महोपद्रवः प्रादुरासीद्, एतस्मात्सर्व-पौरा अनवरत-महात्रस्यमानाः किलाऽऽसन् । हानिर्जाता धनानां कियदपि सदनं भस्मसात्सम्बभूव, भाव्यं किङ्कस्य कहीत्यनुपलमधिकं संशयानाः स्वचित्ते ॥६४५॥ इन्द्रवज्रा - तत्राऽस्ति हेतुर्बलवान् किलैष, घाष्टेलकस्याऽधिकसम्प्रचारः । अस्यां शताऽब्द्यां नख-सम्मितायां, पीपीयते यच्च जनो हि बीडीम् ॥६४६॥ उपजाति: - हेतोरमुष्माद्बलवत्तराद्धि, लग्नो हुताशो बहुशो जगत्याम् । नोनुद्यमानः पवनेन चाऽऽशु, क्षणेन सर्वं किल दन्दहीति ॥६४७॥ एतर्हि काले विषमे स्वकीयं, सज्ज्ञान-कोशं विपुलं चिरेण । चिरन्तनाऽऽचार्यवरैः कियद्भिः, - सुसञ्चितं ज्ञानममूल्यरत्नम् ॥६४८॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy