SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ११४ शिखरिणी ततस्तद्विज्ञप्त्या शम-दमवतामग्र्यमुनिपोऽ चिरं प्रस्थायेतोऽप्रतिहत- विहारैः कतिपयैः । समायातः श्रीमान् सगुरुरनघो राजनगरं, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् = सदा शान्ताकारो भाविकजनतारः श्रुतधरः ॥६३९॥ नदद्भिर्बेण्डाऽऽदिप्रमुखवर - वादित्र - निकरैर्नयद्भिर्बाधिर्यं सकलजनमुच्चैर्निजरवैः । वधूनां सङ्गीतै- रमित-पुरलोकै-रभिमुखं, समायातैः साकं गुरुरयमविक्षत्पुरवरम् ॥६४०॥ अविच्छिन्नां धारां प्रवचन- सुधानामनुपमां, गुरोरास्यादब्जादधिकनिपतन्ती - मतिरसाम् । सुधर्म्यं संसारोदधि - तरणिरूपां श्रुतिसुखां, समस्त - श्रीसंघ समे पीत्वा पीत्वा समगुरतितृप्तिं खलु जनाः ॥६४१ ॥ घ- प्रचुरतर- जाताऽऽग्रहवशा च्छ्राऽङ्गाऽङ्क-क्षोणी-प्रमित (१९६५) शुभवर्षे गुरुवरः । चतुर्मासीं चक्रे पृथुतर - सुडेलोपसदने, महालक्ष्म्या देव्याः परमवसतौ राजनगरे ॥६४२॥ असंख्याः श्रोतारः प्रतिदिनमुपायन्नधिसभं, ह्यपूर्व- व्याख्यानाऽमृतरस-पिपासाऽकुलतराः । उरीचक्रुः केचिन्नियम-मपरे ऽभक्ष्यमखिलं, जहुर्धर्मे दाढर्यं सकल - नर-नार्योऽभ्युपगताः ॥६४३ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy