________________
११६
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् स्वधार्मिकाऽसंख्यसुपुस्तकानि,
विलिख्य हस्तैर्बहुना श्रमेण । सल्लेखकैर्भूरिधनव्ययेन,
संलेख्य चैतत्परिवर्धितं यत् ॥६४९॥ धक्ष्यत्यवश्यं तदशेषमेव,
हुताशनश्चैष पुरि प्रलग्नः । अतोऽधुना तत्परिरक्षणाय, यलो विधेयो मयकाऽऽशु कोऽपि ॥६५०॥
(त्रिभिर्विशेषकम्) नो चेदशेषं द्रुतमेव तद्धि,
विनाशमायास्यति तर्हि लोके । . सर्वस्वनाशे सुधनीव नूनं,
शोच्या भविष्याम इह प्रकामम् ॥६५१॥ रक्षा च तेषां भवनं किलैकं,
दृढं विना नो भविता कदापि । अह्नाय तस्मात्सकला महेभ्या
स्तद्योग्यमेकं भवनं कुरुध्वम् ॥६५२॥ शार्दूलविक्रीडितम् - इत्थं संसदि देशना गुरुवरस्यौजस्विनी श्रीमतां,
श्रोतृणां हृदये प्रभावमधिकं सौवं तदाऽपातयत् । सङ्घीभूय ततः समस्त-सुजनाः श्रद्धालवस्तत्क्षणं,
टीपं संविदधुस्तदर्थमनघा इभ्याः समुत्साहिनः ॥६५३॥