SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ राणकपूरपंचतीर्थीयात्रा कृत्वा राजनगरे चातुर्मासः । गीतिः घाणेराव - नगर्याः, क्रोशोपरि वने चरम - जिनचैत्यम् । मूछारा - महावीर - नाम्ना प्रसिद्ध मतिभव्यं चकास्ति ॥ ६३१ ॥ - आर्या प्रतिमा तस्मिन् दिव्या, गृहवासिनः प्रभोर्महावीरस्य । कारिता नन्दिषेणा-ऽभिधेन भूभुजा प्रभु-भक्त्यै ॥६३२॥ इन्द्रवज्रा - नाडोलपुर्यामपि सन्ति तस्यां, चत्वारि चैत्यानि विभासुराणि । आकाशचुम्बीन्यतिसुन्दराणि, प्रायः शताऽब्याः परतः कृतानि ॥ ६३३ ॥ गीतिः नारलाइ - नगरेऽपि, चैकादश विलसन्ति जिनचैत्यानि । रैवतगिरि - सिद्धाद्री, स्थापितौ स्तस्तेषु तपोमहिम्ना ॥६३४॥ सिद्धाचलीययात्रां करवाणि यर्हि तर्ह्येव किमपीह । खादानि वा पिबेय - मित्युररीकृतघोराऽभिग्रहस्य ||६६५ ॥ पुरा कस्यापि पुंसोऽभीष्टसिद्धये शासन - देवतया । रचिताविमौ च शैला - वद्याऽपि तस्मिन् दरीदृश्येते ॥ ६३६ ॥ ११३ ( युग्मम् ) एतानशेषतीर्थान्, परिपश्यंश्चरितपतिः पृथुतेजा: । उपदेशामृतधारा घन इव वर्षन् सादडीमुपपेदे ॥६३७॥ इहाऽऽगू राजनगरी - याऽखिल - डेलोपाश्रयाऽधिपतयः । चिकारयिषया चातु- र्मास्यममुं बहु विज्ञपयामासुः ॥६३८ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy