SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ११२ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति: आगत्य राणकपुरं प्रविलोक्य तीर्थनाथं विशुद्ध मनसा स्तवनं तदीयम् । कृत्वा जनान् सुभविकानिह सम्प्रबोध्य, नाडोल-पत्तनमगादयमर्हणीयः ॥ ६२६ ॥ शार्दूलविक्रीडितम् - सत्कारं जनताकृतं बहुतरं सम्प्राप्य तत्राऽसकौ, यात्रामुज्ज्वल- भावतो मुनिवर: सम्पाद्य विद्योदधिः । धर्म्याऽमोघ-सुदेशनाऽमृतरसं सम्पाय्य पौरानितो, घाणेरावपुरं गतः पुरजनैः प्रावेशि चारूत्सवैः ॥६२७॥ सानन्दं जिनबिम्बमुज्ज्वलतरं सम्प्रेक्ष्य बह्वादरात्, सत्पद्यैः सुचिरं प्रणुत्य मतिमाञ्छ्रीमान् जिनेशम्प्रभुम् । संसाराऽब्धि- तरिं श्रवः सुखकरीं दत्त्वा च सद्देशना - मायातः पृथु-नारलाइनगरीं तीर्थं विधित्सुर्गुरुः ॥६२८॥ संघाऽऽरब्ध- महामहेन सगुरुः संघैः समं प्राविशत्, सज्जीभूत - पुरं विधाय परया भक्त्या महायोगिराट् । यात्रां भक्तिभराऽवनम्र - सुजनान् सारोपदेशाऽमृतैः, कृत्वा धर्म- - दृढव्रतान् वरकणा-तीर्थं समागादितः ॥ ६२९॥ तत्राऽसौ तीर्थपतिं प्रणम्य, दृष्ट्वा मुहुस्तं बहुधाऽभिनुत्य । अमान - मोदं ह्यबिभः कृतार्थ ममन्यताऽऽत्मानमदभ्र-बुद्धिः ॥६३०॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy