SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ शब्दरत्नाकरे " निचुलोऽवसत्थिकायां स्मृता पर्यस्तिकायुता ॥ २२५॥ पर्यस्तिश्चापि पर्यङ्कः पल्यङ्कोऽपि, कुथे पुनः । वर्णपरिस्तोम-वर्णौ परिस्तोमवदास्तरः || २२६ ॥ आस्तरणं प्रवेणीयुक् प्रवेणिः प्रतिसीरिका । जवनी जवनिकापि यवनी यमनीति च ॥ २२७ ॥ दूष्ये स्थूलं स्थुडमपि, पटकुट्यां तु केणिका । केणिः, पल्लवादिकृता शय्या संस्तर - प्रस्तरौ ॥ २२८ ॥ स्रस्तरोऽपि च, तल्पे तु शयनं शयनीयवत् । शय्यापि च खट्टायां तु मञ्चवद् मञ्चकः स्मृतः ॥२२९॥ पर्यङ्कोऽपि च पल्यङ्कः, पतद्ग्राह - पतद्ग्रहौ । प्रतिग्रह - प्रतिग्राहौ पालेऽथो दर्पणे मतः ॥ २३० ॥ मकुरो मुकुस्तद् मङ्करोऽप्यात्मदर्शवत् । आदर्शों, वस्त्रासने त्यासम्दा सन्धौ च सन्दवत् ॥२३१॥ सन्दी भोजन आच्छादे एकोक्त्या चोभयोरपि । कशिपुर्दन्त्य - तालव्यमध्यः स्याच्छयनासने ॥ २३२ ॥ 'एकोक्योशीरमौशीरं पलङ्कशा पलङ्कषा । राक्षा रक्षा च लाक्षापि तद्वसे याववद्यतः ॥ २३३ ॥ यावको लक्तकालक्तौ, दीपस्तु कज्जलध्वजे । प्रदीपो दीपवृक्षश्च तालवृन्ते तु वीजनम् ॥ २३४ ॥ व्यजनं मृगचर्मोते धवित्रं च धुवित्रवत् । केशमार्जे कङ्कतिका कङ्कतः काक - कङ्कते ॥ २३५ ॥ कङ्कत, बालक्रीडने गिरिको गिरिवगुडः । ३८
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy