SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ तृतीयः काण्डः। गिरिगुडो गिरियको गिरीयकोऽथ गिन्दुकः ॥ २३६ ॥ गेन्दुकोऽपि कन्दुके द्वौ, पार्थिवे नृपतिपः । भूप-भूपति-भूपालास्तथा मूर्नाभिषिक्तयुक् ॥ २३७ ॥ मूर्द्धावसिक्तो राजा राट् राज्ये महिन-माहिने । वसुदेवा वासुदेवा अर्द्धचक्रिषु संमताः ॥ २३८ ॥ तज्ज्येष्ठभ्रातृषु बला बलदेवाः, पृथौ नृपे । निर्वैन्यो, भरते तु स्यात् सर्वदमनस्तथा ॥ २३९ ॥ सर्वदमः, सीतापतौ रामः स्याद् रामचन्द्रवत् । रामभद्रोऽपि, सौमित्रौ लक्ष्मणो लक्षणान्वितः॥२४॥ कैकेयी कैकयी चास्याः पुत्रे तु भरतो मतः । भरथोऽप्यथ जानक्यां शीता तालव्य-दन्त्ययुक्॥२४॥ इन्द्रसुते वालिर्वाली, मारुतो हनुमानिति । हनूमान्, भीमशत्रौ किर्मीरः कर्मीर-किर्मिरौ ॥२४२॥ हिडिम्बो डीकारयुक्तोऽर्जुने फल्गुन-फाल्गुनौ । बीभत्सो बीभत्सुरपि, पाण्डुसूनुषु पाण्डवाः ॥ २४३ ॥ पाण्डवायनाश्वाऽर्जुनधनौ गाण्डीव-गाण्डिवौ । धनुर्मात्रेऽप्यमू, हाले वाहनः सात-सालतः ॥ २४४ ॥ सालोऽपि, परिवारे तु परेर्बर्हश्च बहणम् । आतपत्रे प्रसपत्रं छत्रं छत्रश्च छत्र्यपि ॥ २४५ ॥ रोमगुच्छे चामरं स्याचमरश्वामरस्तथा । चामरापि, भृङ्गारे लालूराण्डूः, सचिवे पुनः ॥ २४६ ॥ अमात्य आमात्यो मन्त्री मन्त्रिश्च, द्वारपालके। .
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy