________________
- तृतीयः काण्डः।
३७
कटिके तु पारिहार्यःपरिहार्यश्च कङ्कणम् ॥ २१४ ॥ कङ्कणिश्वोमिकायां त्वङ्गुलीयकाङ्गुरीयके । । मेखलायां सारसनं दन्त्य-तालव्यमध्यगा ॥ २१५ ॥ रसना, काञ्चिः काश्ची च किंङ्किणिः क्षुद्रघण्टिका । किङ्कणी कङ्कणीका च कङ्कणी किङ्किणीत्यपि ॥२१६॥ समे मञ्जीर-मन्दारे नूपुरे पादतः परे। शीली च नालिका पादाङ्गुलीये पादतः परे ॥२१७॥ पालिका कीलिका, वस्त्रे वसनं वस्त्र-वाससी। सिनो निवसनं सन्नं कर्पटं पटमित्यपि ॥ २१८ ॥ पटः पट्याच्छादनं च छादः सिक्-सिचयौ तथा । वस्त्राश्चले वर्ति-वस्ती दुकूलमतसीपटे ॥ २१९ ॥ : दुगूलं, कम्बले रल्लो रल्लकोऽथ निवीतके । प्रावृतं निवृतं, स्थूलशाटे तालव्य-दन्त्यवान् ॥२२०॥ वरासिः, परिधानस्य ग्रन्थौ नीवी च नीवियुक् । : चण्डातके चलनकश्वलनश्चलनिका पुनः ॥ २२१ ॥ चोलश्चोली कञ्चुलिका कञ्चूलः कञ्चुकोऽपि च । कूर्पासकश्च कूर्पासः कुर्पासः सकुर्पासकः ॥ २२२ ॥ शाटके तु शाटः शाटी, परिधानापराञ्चले। कच्छा कच्छाटी च कच्छाटिका, कौपीनके पुनः॥२२३॥ कक्षापटः कक्षापुटः, कर्पटे नक्तको मतः। - .:: लक्तकः, प्रच्छदपटे उत्तरच्छद उच्यते ॥ २२४ ॥ निचोलको निचुलको निचोलं च निचोल्यपि। :