SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः । २९१ त्रिकालविषयं सर्वं जानीते स्म ददर्श च ॥ २१९ ॥ ततो विष्वक् सुरेन्द्राणामासनानि चकम्पिरे । ज्ञात्वाऽवधेच ते ज्ञानं विभोस्तत्रैयुरञ्जसा ।। २२० ॥ पुण्यं क्वाऽविरतानां नः स्यादेतं सत्क्षणं विना । इति हृष्टाः सुराः सर्वे स्वस्वकृत्यानि चक्रिरे || २२१ ॥ वायुकुमाराः समवसृतिक्ष्मामेकयोजनाम् । अमार्जन मेघदेवावासिञ्चन् गन्धाम्बुदृष्टिभिः || २२२ ॥ व्यन्तराः स्वर्णरत्नैस्तद् वबन्धुर्भूतलं पुनः । तस्मिन् विचित्र पुष्पाण्यधोवृन्तान्यकिरंश्च ते ॥ २२३ ॥ चतुर्दिशं विचस्ते रत्नमाणिक्यकाञ्चनैः । तोरणानि च तद्भूमिशोभायै कण्ठिका इव ॥ २२४ ॥ तस्मिन् मणी रत्न- हेमकपिशीर्षकशोभिताम् । त्रिवमीं रत्न-रे-रूप्यैरन्तर्मध्ये बहिः क्रमात् ।। २२५ ॥ वैमानिका ज्योतिषिका भवनेशा व्यधुः सुराः । ऊर्ध्वाधस्त्रिजगत् त्रातुं प्रवृत्तस्य विभोः कृते ॥ २२६ ॥ ( युग्मम्) प्रतिवमं चतुर्द्वारे सनीलमणितोरणे । धूपघव्यश्चिते वाप्यः स्वर्णाब्जा व्यन्तरैः कृताः ॥ २२७॥ प्राकारस्य द्वितीयस्यान्तरा चोत्तरपूर्वतः । देवच्छन्द विचस्ते स्वामिविश्रामहेतवे ॥ २२८ ॥ मध्ये समवसरणं चैत्यद्भुर्व्यन्तरैः कृतः । सप्तविंशतिधन्वोच्चः स्वाम्यागममिवेक्षितुम् ॥ २२९ ॥ तस्याधो विविधै रत्नैः पीठं विदधिरे च ते । तस्योपरिच्छन्दकं चामेतिच्छन्दं मणीमयम् ॥ २३० ॥ तन्मध्ये पूर्वदिग्भागे रत्नसिंहासनं व्यधुः । छत्रत्रयं मूर्ध्नि दधेः यक्षाभ्यां चामरद्वयी ।। २३१ ॥ १राः सुवर्णम् । २ अनुपमम् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy