SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २९२ श्रीपार्श्वनाथचरितेधर्मचक्रं पुरो द्वारे चक्रुः स्वर्णाम्बुजस्थितम् । .. तत्राऽन्यदपि यत् कृत्यं तत् सर्व व्यन्तरा व्यधुः ॥२३२।। सुरसञ्चारितस्वर्णपद्मन्यस्तपदः क्रमात् । प्रभुः समवसरणं सुरकोटीतो ययौ ।। २३३ ॥ तत्र प्रविश्य चैत्यद्रोः प्रभुश्चक्रे प्रदक्षिणाम् । तीर्थ नत्वा प्राङ्मुखोऽथ सिंहासनमशिश्रियत् ॥ २३४ ॥ द्राक् प्रभोः प्रतिरूपाणि दिवन्यासु तिसृष्वपि । व्यन्तरास्तादृशान्येव चक्रुः स्वामिप्रभावतः ।। २३५ ॥ पश्चाद् भामण्डलं रेजे पुरो रत्नमयध्वजः । प्रभोजलदगम्भीरो दिवि दध्वान दुन्दुभिः ॥ २३६ ॥ साधु-वैमानिकी-साध्व्यः स्युराग्नेय्यां विभोः क्रमात् । नैऋत्यां भुवनपति-ज्योति य॑न्तरयोषितः ।। २३७ ।। वायव्यां दिशि भवन ज्योति य॑न्तरनाकिनः । वैमानिका नरा नार्यः स्युरैशान्यामनुक्रमात् ॥ २३८ ॥ पर्षत्त्रयचतुष्कस्य द्वारैः प्राच्यादिभिः क्रमात् । प्रवेशो नतिपूर्व च तत्र स्थानं यथास्थिति ॥ २३९ ॥ वप्रस्यान्तर्द्वितीयस्य तिर्यञ्चस्त्यक्तविग्रहाः। बाह्यस्य वाहनान्येषा स्यात् समवसृतिस्थितिः ॥ २४० ॥ तदादौ तत्र साध्वीनामभावादेवमेव हि । अस्थात् तत् स्थानकं शेषं सर्वमासीद् यथोचितम् ॥२४१॥ तिर्यग्-नरा-ऽमरा रीत्या स्वस्वस्थाननिवेशिनः । प्रभुप्रभावाद् मान्ति स्माऽनाबाधं तत्र कोटिशः ।। २४२ ॥ वैभवं पार्श्वनाथस्य तत् श्रुत्वोद्यानपालकात् । सद्योऽश्वसेनो रोमाञ्चैज्ञेऽद्धीक्षितनीपवत् ।। २४३ ॥ शकुनायाऽर्थवत् तस्मै दत्त्वेष्टं पारितोषिकम् । वामादेव्यै निवेद्यैतत् प्रभावत्यै च तोषतः ॥ २४४ ॥ १ मेघसिक्तकदम्बवत् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy